________________ सटीकाद्वैतदीपिकायाम् स्फुरणस्य नित्यत्वे बाधकापन्यास: स्यादेतत, स्फुरणस्य नित्यत्वे कथमहङ्काराअनुसन्धानं संस्कारस्यानित्यज्ञानजन्यत्वनियमात् / न चाहमाकारवत्तिविना. शात्तत्संस्कार इति वाच्यम् / तस्या घटज्ञानधाराकालेऽनुदयात् / तथा सति ज्ञानद्वययोगपद्यप्रसङ्गात् / न चान्यकालीनात्मविषयवृत्त्याऽन्यकालीनात्मानुसन्धानं भवति / न चान्यविषयवच्या तत्कालीनात्मसंस्कारो युज्यते तस्याः स्वविषय एव संस्कारजनकत्वादिति चेत् / संस्कारविषयत्वे प्रयोजकनिरूपणं न, यद्वत्यवच्छिन्नचैतन्ये यत्प्रकाशते तद्गोचर एव वृत्त्या संस्कारो जन्यते न तु वृत्तिगोचर एव, स्वजनकानुभवे प्रकाशमानत्वप्रयुक्तत्वात्संस्कारगोचरत्वस्य / अन्यथा वृत्तिगाचर णान्वयदृष्टान्तः व्यतिरेकदृष्टान्तःस्वमतेनेति दृष्टव्यम् / सत्यत्वस्य भावत्वस्या विद्यायामभावान्न तत्र व्यभिचार इत्याह-7 चाविद्यायामिति / उक्तानुमानस्य प्रतिकूलतकपराहति शङ्कते--स्यादेतदिति / दुःख्यहमासमित्यादिप्रत्ययस्य संस्कारजन्यत्वं वाच्यम , संस्कारश्चाह.. "ज्ञानस्य नित्यत्वे ऽनुपपन्नस्तत्सूक्ष्मरूपस्यैव संस्कारत्वादित्यर्थः। चैतन्यस्य नित्यत्वेऽप्यहमिति वृत्तिविनाशात्संस्कार इत्याशङ्कय घटज्ञानधाराकालीनाहमर्थे सापि न सम्भवतीत्याह--न चाहमाकारेति / अस्तु तहि धारोपरमानन्तरमहमाकारवृत्तिनाशात्तत्संस्कार इत्याशङ्कय तेनापि धाराकालीनात्मस्मरणानुपपत्तिरित्याह- चान्येति / तर्हि घटधारयैव तत्कालीनाहमर्थसंस्कार उत्पद्यतामित्यत आह-न चान्यविधयेति / ____घटविषयवृत्त्यैव हमर्थविषयः संस्कारो जायत इति वक्तु संस्कार विषयत्वे ऽनतिप्रसक्तं प्रयोजकमाह -- न यवृत्तीति / यवृत्त्यवच्छिन्नचैतन्य प्रयुक्तसंशयाद्यगोचरत्वं यावतां तद्वत्तिनाशजसंस्कारस्तावतामित्यर्थः / एवकाराथमयोगव्यवच्छेदमाह-न स्विति / वृत्तेजडतया स्वतःसंस्कारानाधायकत्वात्तदवच्छिन्नप्रकाशप्रयुक्तः संग्कारस्तत्र प्रकाशमानमात्रविषयो न तु विपयतयैव प्रकाशमानविषय इत्याह -स्व नन केति / स्वयूध्यान्प्रति विपक्षे