________________ प्रथमः परिच्छेदः 105 1.5 अनित्यभावत्वादित्यनुमानमसत् / यच्चानुमानमनित्यभावत्वादिति। तदसत्। विशेषणासिद्धः। साक्षिज्ञानस्य च पक्षत्वे बाधः / तत्विनिरूपणस्योक्तत्वात् / वृत्त पक्षत्वे सिद्धसाधनम् / एतेन हेतुव्यावृत्तौ ज्ञानमपि व्यावर्तते, अकारणककार्यानुत्पत्तेः। ज्ञानं सहेतुकमेवेति नियमविरोधाचेति परास्तम् / कारणव्यावत्या हि कार्यमेव व्यावर्तते न त्वकार्यमतिप्रसङ्गात् / नापि ज्ञानस्य सहेतुकत्वनियमः अप्रयोजकत्वात् / उक्तप्रतिकूलतर्कपराहतत्वाच / तस्माचतुराद्यन्वयव्यतिरेकाभ्यां कादाचित्कत्वानुभवाच रूपादिविषयान्तःकरणवृत्तिर्जायते, चक्षुरादिकं च तत्रैव कारणं, तत्साक्ष्यनुभवस्तु न कादाचित्कत्वानुभवगोचरो, न वा चक्षुराद्य. न्वयव्यतिरेकानुविधायीति नित्योऽयमनुभवः, अनाविभाव. वादात्मवत्, व्यतिरेकेण, घटवता / न चाविद्यायां व्यभिचारः / भावविलक्षणायां तस्यां हेतोरभावात् // एवानुकूल इति वाच्यम् / प्रागभावाद्यनुगतसंसर्गाभावत्वस्यैकस्याभावात् / प्रतियोगिविरहात्मन एव प्रतिबन्धकाभावस्य कार्यानुकूलत्वात् प्रतिबन्धकदशायां तदभावाच्चेति भावः / नन्वात्मनो ऽविद्यानिवृत्तिरूषत्वेऽविद्यायास्तसमानकालत्वं तदाश्रितत्वं च विरुद्धमित्याशङ्कथ समानसत्ताकत्वाभावान विरोध इत्याह-न चात्मेति / नास्फुरदित्यनुभवस्य वृत्त्यभावविषयत्वोक्तरनित्यत्वमसिद्धमित्याह-- तदसदिति / किं साविज्ञानं पक्षः, वृत्तिज्ञानं वा / उभयथाऽप्यनुपपत्तिरित्याह-साक्षीति / स्फुरणस्य नित्यत्वादधारणककार्योत्पत्तिदोषोऽपि परास्त इत्याह-एतेनेति / स्फुरणं सहेतुकं जैवज्ञानत्वादत्तिज्ञानवदित्याशङ्कयाह... नापीति / जैवज्ञानत्वं जीवसमवेतज्ञानत्वं चेदसिद्धिः, जीवव्यवहारहेतुभूतज्ञानत्वं चेज्जीवस्वरूपज्ञानस्यापि तदुपपत्तेरप्रयोजकत्वमीश्वरज्ञाने व्यभिचारश्चेत्यर्थः / कारणस्यासम्भवादप्ययुक्तमिदमित्याह - उक्तेति / प्रसाधितस्फुरणानादित्वमुपसंहरति-तस्मादिति / अनादेरप्यनुभवस्याविद्यावदनित्यत्वाशङ्कायामाह- निल्योऽमिति / परमतानुसारे 14