________________ 104 सटीकाद्वैतदीपिकायाम् स्फुरणमेवेऽपि न स्फुरणाभावग्रहः तभेदेऽपि न तावत्प्रतियोगिस्फुरणेन तदभावग्रहः / तस्य स्वाभावकालेऽसत्त्वात् / स्वसत्ताकाले च स्वाभावस्य विरहात् / नाप्यन्येन / स्वयम्प्रकाशस्फुरणस्य स्फुरणान्तरागाचरत्वात् / घटस्फुरणकालीनतदितरस्फुरणाभावानुभवस्य कादा. चित्कावे. स्फुरणव्ययोगपद्य प्रसङ्गाच्च / न च तदानी तदितरस्फुरणाभावानुभव एव नेति वाच्यम् / अग्रे तत्प्रतिसन्धान दर्शनात् / तस्माद्वत्तिविरह एव भेदाग्रहात्स्फुरणविरहत्वेनानु. भूयते / अबोध एव वाऽन्धादेः। सत्यपि नित्यस्फुरणे तदावरणस्यैव प्रतिबन्धकत्वान्न प्रवृत्तिः / आत्मैवाविद्यानिवृत्तिरिति मते तस्याः सदा सत्त्वे ऽप्यारोपिताविकाया अपि सत्त्वेन व्यवहारानुदयात्प्रतिबन्धासहकृततदभाव एव हि कायानुकूलः / अन्यथा मण्याद्यन्योन्याभावेऽपि कार्य स्यात् / न चात्मा आरोपिताविद्याविरोधी तस्मिन्सत्यपि तदनुभवात् / अभावस्य स्वसमानसत्ताकप्रतियोगिविरोधित्वाच॥ द्वितीये प्रतियोगिग्रहाभावेऽभावग्रहायोगात्तस्यापि ग्रहो वाच्यः, स च नोपपद्यते स्वप्रकाशस्फुरणस्य स्फुरणान्तरागोचरत्वादित्याह-नाप्यन्येनेति / न च विशिष्टं तत्स्फुरणविषय इति वाच्यम्। तस्य वृत्तिविषयत्वे ऽपि स्फुरणाविषयत्वा. दिति वक्ष्यमाणत्वादिति भावः। किञ्च घटस्फुरणकाले तदितरस्फुरणाभावो ऽनुभूयते न वा ? आद्य स्फुरणद्वये यौगपद्यमसम्भवीत्याह-घटस्फुरणेति / द्वितीये तभावानुसन्धानानुपपत्तिरित्याह-न च तदानीमिति / कस्तयेतावन्तं कालं नास्फुरदित्यनुभव विषय इत्याशङ्कयैतावन्तं कालमहमिह नासमिति ज्ञानस्य देहाभाव इव स्फुरणतादात्म्यापन्नवृत्त्यभाव एव विषय इत्याह-तस्मावृत्तिविरह इति / अविद्यायाः स्फुरणाभावत्वात्सवं वा विषय इत्याह-अबोध एव वेति / गतिःपृच्छयत इति कल्पस्योत्तरमाह-- अन्धादेः सत्यपीति / तात्मरूपाविद्यानिवृत्तेरपि सत्त्वाव्यवहारः स्यादित्यत आह आत्मैवेति / तत्रोपपत्तिमाह-प्रतिबन्धेति / प्रतिबन्धकालान्यकालीन एव तदभावः प्रतिवद्धकार्यानुकूल इत्यर्थः / प्रतिवन्धककालीनस्य तदभावस्यानुकूलत्वे बाधकमाह--अन्यथेति। नच संसर्गाभाव