________________ प्रथमः परिच्छेदः 103 मानसस्फुरणमपि वाह्यसाधकम् ननु बाह्यविषये तथा, प्रान्तरज्ञानं मन एव जनयिष्यतीति चेन्न / घटादिस्फुरणस्याप्यहमर्थस्फुरणामिन्नस्य वाह्यगोचरत्वात् / स्फुरणाभेदश्च धर्मिग्राहकमानसिद्धो घटाद्यापरोक्ष्यान्यथानुपपत्तिसिडश्च / वक्ष्यते च विस्तरेण / किश्च स्फुरणस्यापि मनोजन्यत्वे ऽनुसन्धेयज्ञानसमानकालीनत्वानुपपत्तिर्ज्ञानढययोगपद्यायोगात् / ततश्च ज्ञानकादाचित्कत्वाद्यनुभवो वृत्तिविषयो न तु तत्साक्षिस्फुरणविषयः 1 जन्यज्ञाने ऽनुव्यवसायस्वविषयत्वयोः स्वप्रकाशत्वस्य च निरासेनानादिज्ञानं विना ज्ञानमुत्पन्न कादाचित्कमित्यादिप्रतीत्यनुपपत्तेश्च / __न च स्फुरणस्य कादाचित्कत्वानभ्युपगमे अन्धस्यापि रूपा दप्रवृत्तिप्रसङ्ग इति वाच्यम् / किं स्फुरणविरहो वृत्त्या गृह्यते स्फुरणेन वा ? नाद्यः केवलवृत्तेज उतया तदभावाव्यवस्थापकत्वात्। न द्वितीयः / स्फुरणैक्यस्योक्तत्वाद्वक्ष्यमाणत्वाच्च // __वाह्यविषयज्ञाने मनःसहकृतं चक्षुरादिहेतुरहमादिस्फुरणे मनएव हेतुरित्यर्थः बाह्याभ्यन्तरविषयस्फुरणभेदे सत्येवं स्यान्न च सोऽस्ति प्रमाणाभावादिति दूषयति---न घटादीति / अभेदश्च लाघवानुगृहीतानुसन्धानाद्यनुपपत्त्यादिप्रमाणसिद्ध इत्याह-स्फुरणाभेदश्चेति / अनुभवैकत्ववादे चेदं निरूपयिष्यते इत्याहवक्ष्यत इति / मनसः करणत्व मङ्गीकृत्यापि स्फुरणस्य तज्जन्यत्वं न सम्भवतीत्याहकिश्चेति / स्फुरणोत्पत्त्य सम्भवादनित्यत्वाद्यनुभवस्तदविविक्तवृत्तिविषय इत्याहततश्चति / नित्यानुभवानङ्गीकारे ज्ञानोत्पत्त्यादिरेव न सिध्येदनुव्यवसायादेनिरस्तत्वादित्याह-जन्यज्ञान इति / स्फुरणनित्यत्वे चोक्तं बाधकमपवदति-न च स्फुरणस्येति / किमन्धादेः प्रवृत्त्यापादनेन स्फुरणाभावः सिषाधयिषित उत प्रवृत्त्यभावस्य गतिःपृच्छयते ? आये तद्ग्राहकं विकल्पयति-किमिति / वृत्तश्चक्षुरादितुल्यतया तन्मात्रेण नाभावसिद्धिरित्याह-नाद्य इति / स्फुरणभेदाभावान्न द्वितीयोऽपीत्याह-न द्वितीय इति / ___ स्फुरणभेदमङ्गीकृत्यापि किं स्फुरणकादाचित्काभावः प्रतियोगिनैव गृह्यते उतान्येनेति विकल्प्याद्य अभावप्रतियोगिनोर्योगपद्यासम्भवान्न तेन तद्ग्रह इत्याह-तद्भदेपीति /