________________ 102 _ सटीकाद्वैतदीपिकायाम् न कृतिहेतुरविणया एव तत्प्रतिबन्धकत्वादिति वाच्यम् / तथापि सर्वदा व्यवहारप्रसङ्गात् / स्फुरणात्मकाविद्यानिवृत्तेस्तव मते सर्वदा सत्त्वात् / स्फुरणं कार्य, अनित्यभावत्वात, घटवत् ततो नानादिरनुभव इति चेत् // तदुत्तरम् न तडतोरनिरूपणात् / न तावच्चक्षुरादि स्फुरणहेतुः / बाह्यमात्रगोचरचक्षुरादेरहमर्थ साधारणस्फुरणाहेतुत्वात् / ज्ञान धाराकालीनस्फुरणस्य युगपदनेकज्ञानाजनकचतुराधजन्यत्वाच / अत एव चक्षुराद्यन्वयव्य तिरेकयोवृत्तिविषयत्वम् / नापि मनः / असाधारणप्रमाकरणसहकृतस्यैव मनसो ज्ञान हेतुत्वात् // .. . .. . स्वावयवचैतन्यसंयोगात्स्वचैतन्यसंयोगस्य स्वस्थितिक्षण एवं सिद्धत्वात्तदर्थ चक्षराद्यपेक्षा न स्यादित्याह ... नापि द्वितीय इति / द्वितीये तु चैतन्यकर्माधीनः संयोगो निश्चले विषये वक्तव्यस्तथा च प्रत्यमचैतन्यस्य मध्यमपरिमाणित्वकार्यत्वादिप्रसङ्ग इत्यभिप्रेत्याह-चैतन्यघटयोरिति / ननु स्फुरणव्यतिरिक्तवृत्तेः साधितत्वातद्विषयमेतत्सर्वमिति चोदयति-अस्तु तौति / इदानीं न स्फुरतीति प्रतीतेः स्फुरणस्याप्यनित्यत्वमित्याह- वृत्त्यतिरिक्तात / स्फुरणनित्यत्वे बाधकमाह- अन्यथेति / अन्धादेः प्रतिबन्धकसत्त्वान्न कृतिरित्याह-7 चाविद्यति / तव मते आरोपिता. भावस्याधिष्ठानमात्रत्वादन्धादेः प्रतिबन्धकाभावस्य सत्त्वाद्रूपाद्युपादानं स्यादित्याह- तथाषीति / अनित्यत्वे प्रत्यक्षमुक्त्वा कार्यत्वे ऽनुमानमाह-स्फुरणमिति / स्फुरणोत्पादकानिरूपणान्न तस्यानित्यत्वादिकं प्रामाणिकमिति दूषयतिन तद्धतोरिति / किं तत्र वाह्येन्द्रियं हेतुरुत मनः किं बोभयम् ? आये त्रिपुटीप्रत्यक्षत्वस्य निरासेनाहमर्थस्फुरणं न स्यादित्याह - न तावदिति / धाराकालीनस्य धाराविषयकस्य स्फुरणस्याभावापत्तेस्तत्तदनुसन्धानं च न स्थादित्याह- ज्ञानधारेति / क तहिं वाह्येन्द्रियोपयोग इत्यत आह-अतएवेति / द्वितीयं दूषयति-नापीति ! मनसो ऽकरणत्वादन्यदसाधारणं कारणं वक्तव्यं तदान्तरज्ञाने न सम्भवतीत्याहअसाधारणेति / __ तृतीयं शङ्कते-नन्विति /