________________ प्रथमः परिच्छेदः 101 अनुभवस्यानादित्वे पूर्वपक्षः स्यादेतत्, द्रक्ष्यामि श्रीष्यामि चेति प्रागभावप्रतियोगित्वं विज्ञानानामनुभूयते / विद्यमानप्रागभावप्रतियोगित्वस्यैव लुडर्थत्वात् / तदेव च कार्यत्वं ज्ञानमुत्पन्नमिति चोत्पत्तिः। न चानुभवोत्पत्तौ कारणाभावः / चक्षुराद्यन्वयव्यतिरेकानुविधानादनुभवस्य तस्यैव तत्कारणत्वात् // नचैतत्सर्वं ज्ञानविषययोः सम्बन्धस्येति वाच्यम् / सम्बन्धो हि विषयस्य चैतन्येन तादात्म्यं, संयोगो वा ? / नाद्यः तस्य तदुत्पत्तिसमकालोत्पत्तिकत्वात् / स्थितेऽपि विषये ज्ञाने कादाचित्कत्वादिप्रतीतेः। न हि कश्चित्तटस्थ: संस्तदात्मतां गच्छति, युतसिद्धत्वात् / नापि द्वितीयः घटादेः स्वोत्पत्यनन्तरमेवाकाशेनेव चैतन्येनापि संयुक्तत्वात् / चैतन्यघटयोः क्रियापूर्वसंयोगे च निश्चले घटे क्रियावतश्चैतन्यस्य परिच्छिन्नत्वादिप्रसङ्गात् / ____ अस्तु तर्हि वृत्तिविषया कादाचित्कत्वादिप्रतीतिरिति चेन्न / वृत्त्यतिरिक्तस्फुरणेऽपि किञ्चित्कालसम्बन्धित्वादिप्रतीतेः। अन्यथाऽन्धादेरपि रूपादिगोचरकृतिप्रसङ्गात् / न चाविद्यावृतं स्फुरणं लडन्तशब्दस्य भविष्यदर्थत्वात्तत्प्रयोगमूलानुभवस्यापि स एवार्थ इत्यभिप्रेत्याह-विद्यमानेति / अनुभवस्य प्रागभावप्रतियोगित्वे ऽपि कथं कार्यत्वमित्यत आह-तदेव चेति / स्पष्टमेवोत्पत्तिरप्यनुभूयत इत्याह-ज्ञानमुत्पन्नमिति / उत्पादकाभावादुत्पत्त्याद्यनुभवो भ्रम इत्याशङ्कयाह--न चानुभवेति / ननु यथा गुरुमते रूपं भविष्यति रूपं नष्टमित्याद्यनुभवस्य तत्सम्बन्धविषयत्वमेवमत्रापीत्यत आह-न चैतत्सर्वमिति / ___ ज्ञानज्ञेययोः सम्बन्धस्य तादात्म्यरूपत्वे तस्य सम्बन्धिना सहैवोत्पत्तिनियमादागन्तुकत्यन्न स्यादित्याह--नाद्य इति / तहिं विषयेण सहैवोत्पद्यतां तत्राह-स्थितेऽपीति / नन्वसंसष्टसम्बन्धिद्वये स्थित एव पश्चानिमित्तान्तरात्तादा. त्म्यं किं न स्यादित्यत आह-न हि कश्चिदिति / युत सिद्ध संबन्धस्य संयोगत्त्वादित्यर्थः सम्बन्धस्य संयोगत्वपक्षे किं संयोगजः संयोगः उत कर्मजः। आधे घटादेः