SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् वृत्तिविनाशहेतोरनुगतत्यम् अपि तु ततोरिन्द्रियमनासयोगादेविनाश एव कारणविनाशत्वेनानुगतो वृत्तिविनाशमाने हेतुः / न च निमित्तविनाशाद्रव्यविनाशो न दृष्ट इति वाच्यम् / कारणान्तरानिरूपणेनान्यत्रादृष्टस्यापि द्वित्वादिनाश इव द्रव्यविनाशेऽपि तस्य हेतुत्वात् / न चैवं ज्ञानस्य नियतक्षणसत्ता न स्यादिति वाच्यम् / घटादिववृत्तेरपि द्रव्यत्वाद्यावद्विनाशकारणसमवधानमवस्थानस्येष्टत्वात् / ननु वृत्तेः कार्यद्रव्यत्वे कथं तस्यात्मवृत्तित्वमिति चेदात्मन्यध्यासादिति ब्रूमः / तस्मात्प्रत्यक्षानुमानसिद्ध वृत्तिरूपं पपत्तिप्रमेयमिति सिद्धम् / साक्षिज्ञानस्यानुभवरूपत्वम् स चानुभवो ऽनादिः / उपान्त्यवृत्तिविनाश एव तत्र हेतुरित्याशङ्कयाननुगमात्कारणविनाश एवानुगतो वृतिविनाशहेतुरित्याह-अपिविति / ननु वृत्तेद्रव्यत्वे समवायिनाशादसमवायिनाशाद्वा तन्नाशः स्यानिमित्तनाशाद्व्यनाशादर्शनादिति चेन्न / कारणत्रैविध्यानङ्गीकारेणोपादानातिरिक्तकारणमात्रस्य निमित्तत्वात्प्रारब्धकर्मनाशे शरीरनाशदर्शनाच्चेत्यभिप्रेत्याह-न चेति / कारणत्रैविध्यमङ्गीकृत्यापि गुणनाशवद्रव्यनाशस्याप्यन्यत्रादृष्टं निमित्तविनाशजन्यत्वं कचिदगत्याङ्गोकर्त्तव्यमित्याह-कारणान्तरेति / एवं तहिं धारास्थले यावदिन्द्रियसंयोगमेकस्यैव ज्ञानस्य स्थायित्वापत्तिरित्याशङ्कथेष्टापत्तिरित्याह-न चैवमिति / वृत्तेद्रव्यत्वे स्पर्शशून्यात्मनस्तदाश्रयत्वायोगाद्रष्टुत्वानुपपत्तिरिति चोदयति-ननु वृत्तेरिति / वास्तवाधारत्वस्यात्मन्यभावादवास्तवस्य च जगन्मात्राधिष्ठाने तस्मिन्ननुपपत्त्यभावादिति परिहरति- आत्मनीति / वृत्तितत्साक्षिरूपज्ञानद्वयनिरूपणमुपसंहरति-तस्मादिति / जानामीत्यनुभवः प्रत्यक्षपदार्थः। इन्द्रियसंयोगे सत्यजायमानेत्यादिप्रयोगो ऽनुमानपदार्थः / साक्षिरूपज्ञानस्यात्माभेदसिद्धये कार्यत्वमपाकरोति-स चानुभव इति / कार्यत्वे प्रमाणाभावादिति शेषः / ___ रूपादिविषयप्रकाशानां प्रागभावप्रतियोगित्वादेरनुभूयमानत्वात्तत्र माना. भावो ऽसिद्ध इति चोदयति--स्यादेतदिति /
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy