________________ प्रथमः परिच्छेदः 116 नुभवत्वहेतोस्तत्र व्यभिचारात् / न चौपचारिकं ज्ञानत्वं वृत्तेरस्तीति वाच्यम् / शब्दे ह्यौपचारिकत्वकल्पना न त्वनुभवे, अनुभूयते च प्रतियोगिनि ज्ञानत्ववैशिष्टयम् | न च भ्रान्त्या ज्ञानत्ववैशिष्टयं प्रतियोगिन्यवगत्य तदवच्छिन्नप्रतियोगिकोत्पत्त्यादिरनुभूयत इति वाच्यम् / प्रतियोगिनि ज्ञानत्वांशे बाधकाभावात् / तमन्तरेणापि तत्कल्पनेऽतिप्रसङ्गादिति निरस्तम् // उक्तपूर्वपक्षनिरासः मतभेदेन ज्ञानशब्दार्थद्वविध्यम् __ अन ह्यभयं सिद्धान्तविसंमतं वृत्युपहितचैतन्यं ज्ञप्तिर्ज्ञानमिति व्युत्पत्या ज्ञानपदाभिषेयं वृद्धानां तत्रैव प्रयोगप्रत्यययोर्दर्शनात् केवले चैतन्येऽन्धायां च वृत्तौ तदभावात् / केवलं चैतन्यं श्रुतौ ज्ञानपदेन लक्ष्यते तत्र वृत्यन्तरकल्पनागौरवात् / वाक्यार्थे भवस्तद्विषयो भविष्यति, अनुभवत्वहेतोयभिचारश्च न स्यादित्याशङ्कयाह / न चौपचारिकमिति / औपचारिकत्वं हि गुणयोगादन्यत्र वृत्तिः शब्दधर्मः तच्चानुभवे न सम्भवतीत्याह / शब्दे हीति / तर्हि शुक्तौ भ्रान्त्या रजतत्वमवगत्य तन्नाहो रजतं नष्टमित्यनुभवववृत्तौ ज्ञानत्वमारोप्य तन्नाशे ज्ञानं नष्टमित्याद्यनुभवो भवत्वित्याशङ्कथाह-न च भ्रान्त्येति / तन्मन्तरेणेति / बाधकमन्तरेणापि भ्रान्तित्वकल्पने प्रमापि भ्रमः स्यादित्यर्थः / / ज्ञानशब्दार्थप्रतियोगिकनाशानुभवस्य वृत्तिविषयत्वं दर्शयितुं ज्ञानशब्दार्थो मतभेदेन द्विविध इत्याह-अत्र हीति / यथा श्रोत्रशब्दार्थो नभ एव कर्णावच्छिन्नं तथा वृत्त्यवच्छिन्नं चैतन्यमेव ज्ञानशब्दार्थो न वृत्ति रित्येक मतमाह-वृत्त्युपहितेति / तत्र व्यवहर्तृणां ज्ञानशब्दप्रयोगदर्शनादिति हेतुमाह-वृद्धानामिति / अन्धायामिति / चैतन्यसम्बन्धरहितवृत्तावित्यर्थः। तर्हि सत्यं ज्ञानमिति कथं ब्रह्मणि ज्ञानशब्दप्रयोग इत्यत्राह-केवलं चैतन्यमिति / तत्रापि शक्तयन्तरमेव किं न स्यादित्यत आह-तत्रेति / किञ्च ज्ञानादिपदसमुदायात्मकवाक्यार्थस्य ब्रह्मणस्तदेकदेशज्ञानपदवाच्यत्वे तदितरपदवैयर्थ्यप्रसङ्गात् वृत्तिनिमित्तस्यापि निविशेषब्रह्मण्यभावाञ्च न शक्तिरित्याह-वाक्यार्थ इति / अस्मिन्मते ज्ञानमुत्पन्नं विनमत्याद्यनुभवः श्रोत्रं छिन्नमित्याद्यनुभव वदुपाध्येक