________________ सटीकाद्वैतदीपिकायाम् स्मसमवायानुपपत्तेः / आत्मनो द्रव्यासमवायित्वात् / नाप्यन्त:करणसमवेतं द्रव्यम् / कार्यद्रव्यस्य स्वागं विनाऽन्यत्रागमनात् / स्वायेण सहैव गच्छतीति चेन्न / मूर्तद्रव्यस्य युगपद्विरुद्धदेशसम्बन्धासम्भवेन पूर्वदेशविश्लेषे मरणप्रसङ्गात् / देहावच्छिन्नात्मनो मनोवियोगस्यैव मरणत्वात् / न च विषय देश एव वृतिरारभ्यत इति वाच्यम् / तदुपादानस्यान करणस्य तत्राभावात् // अतएव न क्रियापि वृत्तिःआत्मनि परिस्पन्दपरिणामयोरसम्भवात् / अन्तःकरणगतयोश्च तयोराश्रयं विना अगमनादिति चेत् / वृत्तिस्वरूपनिरूपणम् ___उच्यते, अन्तःकरणस्य स्वाश्रयस्थस्यैव चक्षुरादेरिव देशान्तरप्राप्त्यनुकूलावस्था वृत्तिरित्युच्यते / सा च चक्षुरादिनिमित्तसम्बन्धात् प्रत्यक्षस्थले विषयव्यापिनी भवत्यनुमेयादौ तु नैवम् / तत्सहकारिण इन्द्रियसम्बन्धस्यैवाभावात् / नानुपपत्तिरित्याहन तारदिति / द्वितीयं निराकरोति-नापीति / तत्र किमात्मसमवेतद्रव्यमुतान्तःकरणसमवेतम् ? नाद्यः स्पर्शरहितस्यात्मनो द्रव्यासमवायित्वादित्याह--तस्येति / द्वितीयं दूषयति--नेति / अत्रापि वक्तव्यम् , किं वृत्तिरन्तः करणेन सहैव विषयदेशं गच्छति उत स्वयमेव, अथवा विषय देश एवोत्पद्यत इति / न तावत् द्वितीयःकल्प इत्याह--कार्यद्रव्यस्येति / आद्यमनूद्य दूषयति--स्वाश्रयेणेति / प्राणोत्क्रमणाभावान्न मरणमित्याशङ्कथान्तःकरणगमने तदपि स्यादित्यभिप्रेत्याह--देहावच्छिन्नेति / तृतीयं दूषयति--न चेति / आद्यतृतीयेऽपि कि परिस्पन्दलक्षणा क्रिया, उत परिणामलक्षणा। उभयथापि किमात्मसमवेता, उतान्तः करणसमवेता। सर्वथाप्यनुपपत्तिरित्याहअत एवेति / सावयवमन्तः करणं चक्षुर्वत्सकोचविकासशीलं तवृद्धयधीनवृद्धिमच्च / तथा च तस्य विस्तीर्णावस्था वृत्तिरिति नोक्तविकल्पात्र काश इति परिहरतिउच्यत दति / ननु विस्तीर्णावस्थापि किमन्तःकरणमेव किं वा ततोऽन्या / आये न