________________ प्रथमः परिच्छेदः अत्र वाचस्थति संवादः केचित्तु घटप्रत्यक्षं घट एव व्यवहारमुत्पादयति न पट इति नियमेन तस्य घटेन सह पटव्यावृत्तसम्बन्धसिद्धौ स्वरूपसम्बन्धस्य सम्बन्धिद्वयस्वरूपमात्रात्मकस्य पटसाधारणत्वात्मुख्यसम्बन्ध सम्भवत्यमुख्यसम्बन्धकल्पनायोगाच संयोगादिसिद्धौ वृत्तनिर्गमनं वाच्यम् / अनुमितेस्तु नैवं निर्गमहेत्विन्द्रियसन्निकर्षाभावात् / व्यवहारनियमस्यानिर्वचनीयवादे अविद्ययैवो. पपत्तेः / तस्या अघटितघटनापटीयस्त्वादित्याहुः॥ वृत्ति स्वरूपे पूर्वपक्षः ___ अथ केयं वृत्तिर्यस्या निर्गमनं निरूप्यते ? न तावत्पराभिमतज्ञानवदात्मगुणः / तस्य निष्क्रियत्वात् / नापि द्रव्यम् / तस्या ननु वाचस्पतिमते घटाद्यवछिन्नचैतन्यावरकमप्यज्ञानं जीवनिष्ठम् / अर्थापरोक्ष्यं चापरोक्षज्ञानविषयत्वप्रयुक्तम् / ज्ञानापरोक्षत्वं च करणविशेषजन्यत्वप्रयुक्तमित्यभिमतम् / तवृत्तिनिर्गमनेन विना किमनुपपन्न मिति तत्राह केचित्त्विति / ननु स्वरूपसम्बन्ध एव नियतव्यवहारहेतुः तथा च न वृत्तेनिर्गमनमपेक्षितमित्याशङ्कय तस्य चक्षुरादिसाधारणत्वान्न नियामकत्व मित्याह-स्वरूपसम्बन्धस्येति / किञ्च यथा परमते चक्षुषः प्राप्यकारितानिहाय ध्रुवादिमण्डलेनास्य संयोगस्तदर्थं निर्गमनं च कल्प्यते तत्कस्य हेतोः ? सम्भवति मुख्यसम्बन्धे स्वरूपसम्वन्धस्याकल्पनीयत्वात् / एवमत्रापि प्रत्यक्षवृत्तेविषयेण संयोगादिसम्भवात्तदभिब्यक्तचैतन्यस्य तादात्म्यसम्भवात्तदर्थ वृत्तिनिर्गमनं वाच्यमित्याह--मुख्यसम्बन्ध इति / तर्हि वृत्तित्वाविशेषादनुमित्यादेरपि निर्गमनं स्यादित्याशय क्लुप्तकारणाभावान्मैवमित्याह--अनुमितेस्त्विति / कथं तर्हि ततो व्यवहारनियम इत्याशङ्कयाह--व्यवहार नियमस्येति / अविद्या वा कथमसम्बद्धविषयव्यवहारनिर्वाहिकेत्याशयातीतादेरप्यनिर्वचनीयसूक्ष्मरूपेण विद्यमानत्वात्परोक्षविषयमात्रस्याविद्यकस्वरूपसम्बन्धविशेषादेव व्यवहारनियम इत्याह-तस्या इति / / वृत्तिनिर्गमनेऽनुपपत्तिं वक्तुं तत्स्वरूपं विमृशति--अथ केयमिति / कि वशेषिकाद्यभिमतज्ञानमिव गुणः, उत सांख्याभिमतज्ञानमिव द्रव्यमथवा भट्टाभिमतज्ञानमिव क्रियेति किंशब्दार्थः / आये क्रियारहितत्वान्निर्गम