________________ सटीकाद्वैतदीपिकायाम् उक्तेऽर्थेऽनुमानप्रयोगः ___ तथा च घटावच्छिन्नचैतन्यस्थाविद्यानिवृत्तिः, प्रतियोगिसमानाश्रयज्ञानजन्या, अविद्यानिवृत्तित्वात्मूलाज्ञाननिवृत्तिवत् / न च साध्यविकलो दृष्टान्तः / चरमान्तःकरणवृत्तेरप्यन्तःकरणा. भिन्नसदधिष्ठानत्वात् / अपि च विषयापरोक्षयार्थमपि वृत्तेनिगमनं वाच्यमन्यथा विषयस्य प्रमात्रव्यवहितत्वलक्षणापरोक्षत्वानुपपत्तेः, वृत्तिद्वारा विषयावच्छिन्नचैतन्यस्य प्रमातृचैतन्याभेद एव तदध्यस्तविषयस्यापि तत्सम्भवात् / तथा च प्रत्यक्षो घटादिः स्वाकारवृत्तिसंयुक्तः प्रत्यक्षद्रव्यत्वादात्मवत् ! विपक्षे चानुमेयस्येवाप्रत्यक्ष स्वापत्तिर्वाधिका। अत एव वृत्तेः संयोगपरिमाणादिद्रव्यत्वव्यव. स्थापकगुणसत्त्वाद्व्यत्वसिद्धिः // भावः। भवतु तर्हि प्रमातय्यव विषयावरकमज्ञानमित्याशङ्कय तस्यावरकत्वात् वाह्यतमोवदावृताश्रितत्वं वक्तव्यमित्याह-वृत्तिविषयचैतन्येति / वृत्तेविषयचैतन्याश्रितत्वसाधनफलमाह-वृत्तेरिति / वृत्तहिनिर्गमने घटच्छिद्रनिर्गतदीपप्रभावत्सा दृश्येतेत्याशङ्कयाह--न चैवमिति // तर्कितेऽर्थे ऽनुमानं प्रयुक्ते-तथाचेति / मृलाज्ञाननिवृत्तौ सिद्धसाधनतापरिहाराय घटावच्छिन्नेति विशेषणम् / इन्द्रियसन्निकर्षादिनार्थान्तरवारणाय ज्ञानपदम् / चिन्मात्रस्य मलाज्ञानाश्रयस्वात्तन्निवर्तकवृत्तेः प्रमातृनिष्टत्वाद्वैय्यधिकरण्यमित्याशङ्कयाज्ञानाश्रयस्यैव चिन्मात्रस्य सर्वाधिष्ठानतया वृत्तिम्प्रत्यप्याश्रयत्वान्मैवमित्याह-न च साध्येति / किञ्चैकान्तःकरणसम्बन्धात्प्रमातृप्रमाणप्रमेय चैतन्यानामेकलोल भावेनाभिव्यक्तत्वेन तदध्यस्तविषयापरोक्ष्यसम्भवाद्वृत्तिरूपेण परिणतान्तःकरणोपहितत्वं विषया. वच्छिन्नचैतन्यस्यावश्यकमित्याह-अपि चेति / अत्राप्यनुमानमाह-तथा चेति / स्वाकारवृत्तिसंयुक्त इति / स्वाकारवृत्त्या स्वरूपसम्बन्धवान्न भवतीत्यर्थः। स्वशब्दः पक्षवाची / तथा च वृत्तौ न व्यभिचारः / न वा दृष्टान्तः साध्यविकलः / स्वरूप सम्बन्धमात्रवत्त्वे दोषमाह-विपक्षे चेति / ज्ञानघटयोः स्वरूपसम्बन्धनिषेधे परिशेषात संयोग एव पर्य वस्यति / तथा च बुद्धेर्गुणत्वझतिरित्याशङ्कय इष्टापत्ति रित्याह-अत एवेति //