________________ प्रथमः परिच्छेदः वृत्तिस्फुरणयो देप्यपरोक्षवृत्तेविषयदेशव्यापित्वाक्षेपपरिहारः __ननु किं वृत्तिनिर्गमनेन प्रमातृगतयैव तया निखिलव्यवहारोपपत्तेः, अतस्तन्निर्गमनमप्रमाणमिति चेत् / उक्तं तावत्प्रत्य. क्षार्थापत्तिभ्यां प्रत्यक्षविषये प्रमातृसमवायिज्ञानातिरिक्तस्फुरणमाश्रयितव्यमिति, तच स्फुरणमभिव्यक्तचैतन्यमेव ज्ञातता पक्षस्य निरस्तत्वात् / अभिव्यक्तिस्तु चैतन्यस्यावरणाविद्यानिवृत्तिरेव / ततोऽन्यस्य भावस्याभावस्य वाऽनिरूपणात् / अविद्यानिवृत्तिश्चाविणसमानाश्रयविषयया वृत्त्या भवति / यज्ञदत्तस्य घटज्ञानेन तदीयपटाज्ञानस्य देवदत्तघटाज्ञानस्याप्यनिवृत्तः / तस्या लाघवेन प्रतियोगिसमानाधिकरणज्ञानजन्यत्वाच / विषयचैतन्यावरणमज्ञानं च विषयावच्छिन्न चैतन्यगतमिति तद्गतया वृत्त्यापि भवितव्यम् / वृत्तेश्च विषयचैतन्यगतत्वं न निर्गमनाहते सम्भवति / न चैवमनुपलब्धिवाधः / वृत्तेहिरिन्द्रियायोग्यत्वात् // - भावाद्वृत्तितदवच्छिन्नचैतन्याभ्यां परेषामिव स्वरूपसम्वन्ध एव नियामक इत्याह-परोक्ष इति // ___ इदानी वृत्तिस्फुरणयोर्भेदमङ्गीकृत्यापरोक्षवृत्तेविषयदेशव्यापित्वमुक्तमाक्षिपति-ननु किमिति / विषयावच्छिन्नचैतन्यस्थाविद्यानिवृत्त्यर्थ वृत्तिनिर्गमनमावश्यकमिति वक्तमुक्तमर्थ स्मारयति-उक्तं तावदिति / अर्थापत्तिशब्देन धारानुसन्धानाइनुपपत्तिदेवदत्तकृतिर्देवदत्तज्ञानजन्येत्यनुमानं च परिगृह्यते / ज्ञानातिरिक्तस्फुरणं ज्ञाततैवेत्याशङ्कयाह-तच्च स्फुरणमिति / अस्तु तहिं वृत्तिकृतः प्रकाश एव तदभिव्यक्तिरित्याशङ्कय स्वप्रकाशचैतन्यस्य प्रकाशान्तराविषयत्वादविद्यानिवृत्तिरेवाभिव्यक्तिरित्याह-अभिव्यक्तिस्त्विति / अस्तु तर्हि प्रमातृसमवेतयैव वृत्त्याऽविद्यानिवृत्तिरित्यत आह-अविद्यानिवृत्तिश्चेति / भिन्नविषयस्य भिन्नाश्रयस्य वा वृत्तिज्ञानस्य नाज्ञाननिवर्तकत्व मिति व्यतिरेकमाह-यज्ञदत्तस्येति / ननु यदज्ञानं यं प्रति यदा ऽऽवृणोति तदा तद्विषयज्ञानेन तन्निरसनमभ्युपेयं, अन्यथैकघटावच्छिन्नचैतन्यस्य चैत्रमैत्राज्ञानसमानाधिकरणचैत्रघटज्ञानेन तदुभयाज्ञाननिवृत्तिप्रसङ्गात् / तथा च समानाधिकरणत्वमनपेक्षितमित्याशङ्कयाह-तस्या इति / यद्यप्येवं तथाप्यविद्या स्वसाधकप्रमाणः ज्ञाननिवर्त्यत्वेन सिध्यतीति लाघवेन स्वसमानाधिकरणज्ञाननिवत्यत्वेन सिध्यतीति तत्प्रमाणबलात्समानाधिकरणत्वमपि वाच्यमिति