SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सटोकाद्वैतदीपिकायाम् - न चातीताद्यर्थगतसामान्य ज्ञातता भवन्विति वाच्यम् / अन्यज्ञाततयाऽन्यस्य ज्ञानविषयतानियमानुपपत्तेः। उपपत्तौ वा घटत्वाश्रयनिखिलघटस्थाप्ययं घट इति ज्ञानविषयत्वप्रसङ्गात् / ज्ञाततोत्पत्तेः पूर्व ज्ञानज्ञेयसम्बन्धाभावेन ज्ञानस्य ज्ञेयविशेषनिष्ठज्ञातताजनकत्वानुपपत्तेश्च / नापि कृतिनियमार्थं ज्ञातता ज्ञानजन्याऽऽश्रयणीया। तब मते निर्विशेषविषये ज्ञाततावत्कृतेरप्यु. पपत्तेः / नित्यस्फुरणेनापि तदुपपत्तेश्च / कस्तहिं ज्ञानज्ञेययोः सम्बन्धो येन घटज्ञानं घटीयं भवेदिति चेत् / स्वरूपसम्बन्ध एवेति केचित् / अस्मदाचार्यास्तु प्रत्यक्षज्ञानज्ञेययोर्न स्वरूपसम्बन्धः सति मुख्य सम्बन्धे स्वरूपसम्बन्ध. कल्पनायोगात् / किन्त्वन्तःकरणात्सहकारिसहिताद्विषयदेशव्यापिनी काचित्तिजायते / तया च वृत्या विषयस्य यथायथं संयोगादिः सम्बन्धः / वृत्त्यभिव्यक्ततत्तदवच्छिन्नचैतन्येनाध्यासिकं तादात्म्यं परोक्षे तु तदभावात् स्वरूपसम्बन्ध एवेत्याहुः॥ जातिव्यक्त्योस्तादात्म्यसम्बन्धात्सामान्याश्रयापिज्ञातता व्यक्ति विषयतानियामिकेत्याशङ्कयातिप्रसङ्गमाह-उपपत्तौ वेति / किञ्च ज्ञातताधारत्वस्यापि नियामकाभावान्न तेन विषयत्वनियम इत्याह-ज्ञाततोत्पत्तेरिति / अनुमेयादिषु कृत्यदशनात्तन्नियामिका ज्ञातताऽऽस्थेयेत्याशङ्कय ज्ञातताधारत्वनियमवत्तन्नियमो ऽप्यन्यत उपपद्यत इत्याह -नापीति / अस्मिन्मते च नित्यमपि स्फुरणं विषयतादात्म्येनाभिव्यक्तं कृतिहेतुरित्याह-नित्येति / ज्ञाततानङ्गीकारे ज्ञानस्य ज्ञेयविशेषेण सम्बन्धाभावाव्यवहारविशेषो न स्यादिति चोदयति - कस्तहीति / वैशेषिकादिमते तमाहस्वरूपेति / सिद्धान्ते प्रतिकमव्यवस्थां दर्शयति-अस्मदिति / तुशब्दसूचितं वैषम्यमाह-प्रत्यक्षेति / तत्र तावद्वृत्तिरूपापरोक्षज्ञानस्य द्रव्येण संयोगः गुणादिना तु संयुक्ततादात्म्यं विषयतानियामकमित्याह-किन्त्वन्तः करणेति / पश्चमी चोपादाने / अपरोक्षवृत्त्याभिव्यक्ताधिष्ठानचैतन्यात्मकस्फुरणस्य विषयनियामकं सम्बन्धमाहवृत्त्यभिव्यक्तेति / विषयदेशसंसृष्टवृत्त्युदये विषयावच्छिन्नचैतन्यमपि वृत्तिमदन्तः करणावच्छेदात् प्रमातृप्रमाणचैतन्याभेदेनाभिव्यज्यते। तथा च प्रमातृतादात्म्याद्विषयस्यापरोक्ष्यं प्रदीपेन प्रकाशत इति प्रदीपस्वरूपप्रकाशविषयत्ववन्मया विदित इति प्रमात्रात्मकफलविषयत्वानुभवादिति भावः। परोक्षस्य तु वृत्त्या संयोगादेर
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy