________________ प्रथमः परिच्छेदः ज्ञानजनकस्य विषयत्वनियामकत्वे दोषः न च ज्ञानज्ञेययोर्जन्यजनकभावसम्बन्ध इति वाच्यम् / आत्मादेरपि घटाविज्ञानजनकस्य तद्विषयत्वप्रसङ्गात् / न च समवाय्याद्यतिरिक्त ज्ञानजनकं तद्विषय इति वाच्यम् / आत्मनः स्वज्ञाने ऽप्यविषयत्वापत्तेः। न च विषयतया जनकं तथेति वाच्यम् / ज्ञानकालीनविषयत्वस्य तत्पूर्वकालीनजनकतानवच्छेदकत्वात् / घटादेः पूर्वविषयत्वे बीजानिरूपणाच / ____ अत एव तज्जनकेन्द्रियसम्प्रयुक्तस्तद्विषय इति निरस्तम् / आत्मादावपि प्रसक्तः / अनि यतज्ञानकालीनस्य तस्य नियतज्ञानकालोनविषयत्वाप्रयोजकत्वाच / अतो यस्मिन् विषये ज्ञानाजज्ञा. ततोत्पद्यते स एव तस्य विषयो नान्य इति ज्ञातताऽभिन्न स्फुरणमपि ज्ञानजन्यमेवेति चेत् / नहि विषयनियमार्थ ज्ञानजन्या ज्ञातताऽऽस्थेया। तव मते परोक्षज्ञान इवापरोक्षज्ञानेप्यन्यत एव नियतविषयभानोपपत्तेः / न च परोक्षज्ञानेनाप्यर्थगता ज्ञातताऽऽधीयते / अतीतादिज्ञानविषयस्य तदानीमसत्वादनाश्रयकार्यायोगात् / तथा सति विनष्टेऽपि घटे लौहित्याद्युत्पत्तिप्रसङ्गात् // कत्वादित्यर्थः। किञ्च घटादेविषयत्वे सिद्धे तेनरूपेण जनकत्वसिद्धिः, जनकत्वे च सिद्धे विषयत्वसिद्धिरितीतरेतराश्रयः स्यादित्याह-घटादेरिति / अस्तु तर्हि ज्ञानजनकेन्द्रियसनिकृष्टत्वं विषयत्वनियामकमित्यत आह- अत एवेति / अतः शब्दार्थमाह-आत्मादाविति / गगनादिरादिपदार्थः। सम्प्रयोगस्य निमित्तकारणत्वेन ज्ञानकाले नियतत्वाभावेन तत्काले नियतविषयत्वानियामकतेत्याह-अनियतेति / परिशेषाजज्ञानजन्यज्ञातताधारत्वमेव विषयत्वनियामकमित्युपसंहरतिअतो यस्मिन्निति / ज्ञातताया ज्ञानजन्यत्वे ऽपि स्फुरणस्य किमायातमित्यत आहज्ञातताऽभिन्न मिति / ज्ञातताभावेऽपि विषयनियमदर्शनान ज्ञातताधारत्वं विषयतानियामकमिति दूषयति .. नहीति / परोक्षे ऽपि वह्नयादौ ज्ञाततास्त्वित्याशयातीताद्यर्थे सा न सम्भवतीत्याह ---न च परोक्षेति / अतीतादेरपि कारणात्मना सत्त्वात्तत्र ज्ञातताऽऽधीयतामित्याशङ्कयाह -तथा सतीति / अतीतादिव्यक्तेरभावेऽपि तत्सामान्यस्य सत्त्वात्तत्र ज्ञाततोत्पत्स्यत इत्याशङ्कय तथापि सामान्यस्यैव तद्विषयता स्यान्न व्यक्तरित्याह--न चातीतेति /