________________ सटीकाद्वैतदीपिकायाम् नन्विदानी घटः स्फुरतीति तस्य कालभेदावच्छेदानुभव एव जन्यत्वे प्रमाणमिति चेन्न / इदानीमहमस्मोतिवत्तदनुभवस्य वर्तमानकालसम्बन्धित्वमात्रविषयतया प्राकालासम्बन्धित्वाविषय त्वात् / पूर्वकालासम्बन्धित्वे सत्युत्तरकालसम्बन्धित्वस्यैव कार्यत्वात् / एतावत्कालं नास्फुरदिदानी स्फुरतोति तद्ग्राहकानुभवो ऽप्यस्तीति चेन्न / तस्यावताभिव्यक्तस्फुरणविषयत्वेऽप्युपपत्तेः / अविद्याया एव स्फुरणाभावत्वात् / ननु ज्ञानेन ज्ञातता न जायते चेज्ज्ञानस्य विषयनियमो न स्यात् / न ह्यात्मसमवेतस्य ज्ञानस्य विषयेण साक्षात्सम्बन्धोऽस्ति, येन विषयविशेषे व्यवहारस्ततो जायेत // यद्युत्पत्त्यादिकमस्य प्रामाणिकं स्यानत्वेतदस्तीति दूषयति-तन्नेति / इदानीं स्फुरतीति कालविशेषे प्रतीयमानत्वात्कालान्तरसत्त्वे च मानाभावात्कार्यत्वमिति चोदयति-नन्विति / तर्हि कालान्तरेऽसत्त्वेपि मानाभावाद्वर्तमानतयाऽनुभवस्य नित्यत्वेऽपि सम्भवान्न तस्यानित्यत्वमिति दूषयति-नेदानीमिति / वर्तमानताव. भासमात्रस्यानित्यत्वाप्रयोजकत्वे कस्य तमुनित्यत्वे प्रयोजकत्वमित्यत आहपूर्वकालेति। तर्हि पूर्वकालासम्बन्धित्वमप्यनुभूयत इति चोदयति-एतावदिति / नास्फुरदिति तत्स्फुरणावारकाविद्यैव प्रतिसन्धीयते न तु स्फुरणासत्त्वमिति परिहरति-न तस्येति / नास्फुरदिति ना तदभाव एव प्रतीयत इत्यत आह --- अविद्यायइति / अविद्यानिवृत्तेरधिष्ठानस्फुरणमात्रत्वात्तदभावोप्यविद्ये वेत्यर्थः / ज्ञाने नियतविषयकत्वानुपपत्त्या ज्ञानजन्या ज्ञातता विषयनिष्ठा सिध्यतीति चोदयतिननु ज्ञानेनेति / अस्तु तर्हि प्रभाकुम्भयोरिव साक्षात्सम्बन्धोऽपि विषयतानियामक इत्यत आह-न ह्यात्मेति / ज्ञानस्यात्मगुणत्वेन विषयेण संयोगादिकं न सम्भवतीत्यर्थः। तर्हि मास्तु विषयनियम इत्याशङ्कय व्यवहारनियमोऽपि न स्यादित्याह-येनेति // __तर्हि ज्ञानजनकत्वमेव विषयत्वनियामकमित्याशङ्कय किं जनकत्वमात्रं नियामकमुत समवायाद्यतिरिक्तत्वे सति जनकत्वं विषयतया जनकत्वं वा ? आद्यमतिप्रसङ्गन दूषयति - न च ज्ञानज्ञेययोरिति / द्वितीये समवायिरूपस्यात्मनः स्वसमवेताहमिति ज्ञानविषयत्वं न स्यादित्याह-न च समवायीति / तृतीयमसम्भवेन दूषयति-न च विषयतयेति / विषयताया ज्ञानघटितशरीरत्वेन ज्ञानसमकालायास्तत्कालपूर्वकालीनजनकताम्प्रत्यनवच्छेद