________________ प्रथमः परिच्छेदः 91 च्छिन्नचैतन्यस्यापि सर्वदा सत्त्वाज्ञानमन्तरेणापि तद्विषयिणी कृतिः स्यादिति चेन्न / अभिव्यक्तचैतन्यस्यैव स्फुरणपदार्थत्वात् / अभिव्यक्तेश्च वृत्तिज्ञानाधीनत्वात् / ज्ञानगतमपरोक्षत्वमपि न विषयस्फुरणं विना निर्वहति / अपरोक्षविषयविषयत्वं हि ज्ञानस्यापरोक्षत्वं विषयस्यापरोक्षत्वं प्रमात्रव्यवहितत्गेन / तच्च तदुभयस्फुरणैक्यं विना न निर्वहतीति शाब्दापरोक्षे वक्ष्यामः / / एतेनेष्टो घटो द्विष्टो घट इत्यादिप्रतिबन्दी परस्य पराकृता तत्रेच्छाविषयत्वाद्यतिरिक्तधर्मान्तरानङ्गीकारे बाधकाभावात्तदङ्गीकारे गौरवादिति / स्फुरणस्य ज्ञाततापरपर्यायस्य ज्ञानजन्यत्वखण्डनम् तच्च स्फुरणं ज्ञातताऽपरपर्यायं ज्ञानजन्यमिति केचित् / तन्न / तस्य जन्यत्वे प्रमाणाभावात्तदङ्गीकारे गौरवादिति / विषयतादात्म्यमाक्षिपति-नन्वेवमिति / वृत्त्यभिव्यक्तस्फुरणे सत्यप्यनुमितिगोचरे कृत्यनुदयान्न तेन रूपेण तस्य हेतुत्वमित्याह - न तस्येति / विषयावच्छिन्नस्फुरणे सत्यपि कृत्यनुदयान्न तेन रूपेणापि हेतुत्वमिति चोदय ति-ननु विषयेति / अभिव्यक्तस्य तस्य न व्यभिचार इति परिहरति-नाभिव्यक्तेति / नन्वपरोक्षवृत्त्यभिव्यक्तत्वेन रूपेण न व्यभिचार इति चेन्न वृत्त्यापरोक्ष्यस्य विषयापरोक्ष्यप्रयुक्तत्वाद्विषयापरोक्ष्यस्य संवित्तादात्म्याधीनत्वाद्विषयाभिन्नसंवित्त्वेन कृतिहेतुत्वे सम्भवति न तत्परम्पराप्राप्तरूपेण हेतुत्वमुचितमित्यभिप्रेत्याह - ज्ञानगतमिति / तच्चेति / तदव्यवहितत्वं वृत्त्य भिव्यक्तप्रमातृचैतन्यस्य विषयावच्छिन्नचैतन्यस्य चैक्यं विना नेत्यर्थः। यदा प्रमातृचैतन्योपाधिभूतमन्तःकरणं वृत्तिरूपेण विषयाधिष्ठानचैतन्य व्याप्नोति तदा विषयचैतन्यमपि प्रमातृचैतन्याभिन्नं भवति विषयचैतन्याभेदेन विषयस्याध्यासात्सोपि भवति प्रमात्रव्यवहित इति भावः // नन्वेवं सतीष्टो घटो द्विष्टो घट इत्याद्यनुभवादिच्छादिव्यतिरिक्त विषयगतं धर्मान्तरमप्यङ्गीक्रियतामिति चोद्यमयुक्तमित्याह-एतेनेति / / वृत्तिस्फुरणभेदस्यानेकप्रमाणसिद्धत्वेनेत्यर्थः / इष्टत्वादौ तन्नास्तीत्याहतत्रेच्छेति / ननु स्फुरणस्य 12 रूपत्वमुत्तमयुक्तं स्योत्पत्त्यादिमत्त्वेनानात्मत्वादात्माभेदायोगादिति वार्तिककारीयाः प्रत्यवतिष्ठन्त इत्याह-तच्चेति / स्यादेतदेवं