SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् तत्र विषयस्यातीन्द्रियत्वादेव न कृतिरिति वाच्यम् / तन्त्वादावप्यनुमितिदशायां तदभावात् // ननु प्रत्यक्षज्ञानमेव स्वविषयकृतिहेतुः न तु स्फुरणं तद्विरहात् / प्रत्यक्षाभावे स्फुरणस्याप्यभावादिति / उच्यते / अन्वयव्यतिरेकसहकृतकृतिनिरूपितकारणताग्राहकेणानुभवेन, देवदत्तकृ तर्देवदत्तज्ञानजन्या, देवदत्तनिष्ठप्रत्यक्षकार्यत्वात्तदिच्छावदित्यनुमानेन वालाघवोपोडलितेन स्फुरणमेव कृतिकारणं विषयीक्रियते न तु प्रत्यक्षज्ञानादि तेषामनन्ततया गौरवेण तदगोचरत्वात् / न च त्वत्पक्ष एव गौरवं ज्ञानातिरिक्तस्फुरणाङ्गीकारादिति वाच्यम् / सर्वसम्प्रतिपन्नात्मन एव स्वयंप्रकाशस्फुरणतया ऽस्माभिः स्वीकारात् / नन्येवमपि त्यभिव्यक्तस्फरणमेव कृतिहेतुरस्तु किं विषय. गतेनेति चेन्न। तस्यानुमित्यादिसाधारणत्वात् / ननु विषयाव कृतिकारणत्वायोगात्तत्कारणं विषयतादात्म्यापन्नं स्फुरणमावश्यकम् / तथाच तयोभदसिद्धिरित्यभिप्रत्याह---किश्चानुमितीति / परमाण्वादेः प्रत्यक्षायोग्यत्वादेव कृतिविरहो न स्फुरणविरहादित्याशङ्कय प्रत्यक्षयोग्येऽपि स्फुरणाभावे कृतिविरहो दृष्ट इत्याह-न च तत्रेति / अस्तु तीसरोक्षवृत्तिरेवाव्यभिचारिणी कृतिहेतुः, तव्यभिचारे स्फुरणस्यापि व्यभिचारात्तदभिव्यक्ताधिष्ठानचैतन्यस्यैव स्फुरणत्वादिति चोदयति-नन्विति / लाघवतर्कोपोलितप्रत्यक्षानुमानाभ्यामेकस्यैव स्फुरणस्य कृतिमात्रकारणस्वसिद्धर्नानन्तापरोक्षवृत्तीनां कारणतोचितेति दूषयति --उच्यत इति / यज्ञदत्तकृतौ वाधपरिहारार्थ देवदत्तेति पक्षविशेषणम / ईश्वरज्ञानजन्यत्वेनार्थान्तरतापरिहाराय साध्ये ऽपि तत्पदम् / यज्ञदत्तसुखादौ व्यभिचारवारणाय देवदत्तनिष्ठेति / देवदत्तात्ममनः संयोगे व्यभिच रवारणाय प्रत्यक्षपदम / आत्मत्वादी व्यभिचारवारणाय कार्यपदम् / न त वृत्तिज्ञाने व्या चारस्तस्यापि साक्षिण्यध्यासेन तज्जन्यत्वादिति भावः / जन्यज्ञानातिरिक्तस्फुरणं कल्पयित्वा तस्य कारणत्वकल्पने ऽतिगौरवमित्याशङ्कय स्फुरणस्यात्मस्वरूपत्वेनाकल्प्यत्वात्तस्यैकस्य कृतिकारणाताकल्पने लाघवमित्याहन च त्वत्पक्ष इति / वृत्तिव्यतिरिक्त स्फुरणं कृतिहेतुरित्यङ्गीकृत्य तस्य
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy