________________ प्रथमः परिच्छेदः अनाश्रितमेव स्फुरणम् अस्माकं च स्फुरणं नित्यात्मरूपमेवेति वक्ष्यते, तथापि विषयावच्छिन्नचैतन्यमभिव्यक्तं सत्स्फुरणमित्युच्यते / घटः स्फुरतीत्यनुभवात् / अतीतादौ च विषयाभावेन कथं तत्स्फुरणं स्यादिति चेन्न / विषयस्यावच्छेदकत्वं हि तादात्म्येन स्वरूपसम्बन्धेन वा / तत्र प्रत्यक्षे विषयस्य तादात्म्येनावच्छेदकत्वं स्फुरणस्यान्योन्याध्यासेन विषयाभिन्नत्वात् / परोक्षे तु विषयस्य स्वरूपसम्बन्धेनैवावच्छेदकत्वं, तत्वचिदविद्यमानस्यापि विषयस्य ज्ञान इव स्फुरणे ऽपि न विरुद्धयते / नन्वेवमनुमेयस्यापि फलव्याप्यत्वापत्तिरिति चेन्न / कर्माश्रयस्यैव फलत्वात् / अनुमितौ त्वान्तरमेव चैतन्यं तदाकारवृत्त्या व्यज्यत इति न तत्फलमिति गीयते / किशानुमितिगोचरे ऽपि परमाण्वादौ स्फुरणशून्ये न कृतिः, तन्त्वादौ तु स्फुरणाश्रये कृतिरित्यन्वयव्यतिरेकाभ्यां विषयगतं स्फुरणं कृतिहेतुः / न च माह-न, अतीतादाविति / स्वमते स्फुरणस्य नित्यत्वादित्यभिसन्धिः। अभिसन्धिमजानानस्य चोद्यमुद्भाव्य तत्प्रकटनेन निराकरोति-न चासतीति / जातिविरहेति पदत्वादिजातिविरामप्रसङ्गादित्यर्थः / __ आश्रितत्वमङ्गीकृत्येदमुक्तम् वस्तुतस्त्वनाश्रितमेव स्फुरणमित्याहअस्माकमिति / स्फुरणस्य नित्यत्वेपीदानीमतीतादिविषयावच्छेदकाभावात्कथं तत्स्फुरणं भवेदिति चोदयति-- तथापीति / अपरोक्षविषयस्यैव तादात्म्येन स्फुरणावच्छेदकत्वमिति मुख्यसम्बन्धे स्वरूपसम्बन्धासम्भवात् परोक्षस्य तु नियमेन तदभावात्स्वरूपसम्बन्धेनैव परमते जन्यज्ञानवत्स्फुरणावच्छेदकत्वम् / तथा चातीतादिस्फुरणमिति न विरुद्धयत इति परिहरति-न विषयस्येति / अविद्यमानस्यापीत्यपिशब्देन वस्तुत आमोक्षमतीतादिसूक्ष्मरूपेण वर्तत इति द्योतयति / परोक्षविषयस्यापि स्फुरणरूपफलानच्छेदकत्वेऽपमिद्धान्तः स्यादिति चोदयति-नन्वेवमिति / विषया. धिष्ठानचैतन्यस्यैव वृत्त्यभिव्यक्तस्य फलत्वादनुमेयादौ वृत्तिनिर्गमनाभावेन तस्यानभिव्यक्तत्वान्न फलावच्छेदकत्वमित्याह-न कर्मेति / किच्चाहमर्थधर्मज्ञानस्य