SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् द्वितीयः, व्यवसायानुपनीतस्य तद्विषयत्वस्यानुव्यवसाये भानायोगान् / स्वसम्बेद्यज्ञानवादेऽपि किमुपसर्जनं ज्ञानं शेयेन सहैव स्वात्मानं विषयीकरोति, किं वा प्रथमं स्वात्मानं विषयीकृत्य शेयं विषयीकरोति ? नाद्यः, विशेषणज्ञानतत्सन्निकर्षयोः प्रथम वक्तव्यत्वात् / विशेषणभूतज्ञानस्यैव विशिष्टज्ञानत्वे तस्य तज्ज्ञानतत्सन्निकर्षजन्यत्वायोगात् / अत एव न द्वितीयः बुद्धेविरम्यव्यापारानुपपत्तेश्च / सकर्मकाकर्मकयोञ्जः स्फुरणयोरभेदासम्भवात् / ज्ञानेन स्फुरतीति भेदानुभवाच्च / नन्वेवमतीतादावपि स्फुरतीत्यनुभवात्तत्रापि स्फुरणा. पत्तिःतत्र चाश्रयाभावेन स्फुरणाभावात् / ज्ञानेनैव तद्व्यवहारे प्रकृतेऽपि तथा किं न स्यादिति चेन्न। अतीतादावपि स्फुरणस्य सत्त्वात् / अन्यथा तद्व्यवहारानुपपत्तेः। व्यवहारस्यार्थप्रकाशजन्यत्वात्, वृत्तिमात्रस्याप्रकाशत्वात् / न चासत्याश्रये कथं स्फुरणं स्यादिति वाच्यम् / आश्रयाभावे कार्यमेव व्यावतते न त्वकार्यमपि / अन्यथा तव मतेऽपि प्रलये जातिविरहप्रसङ्गात् / व्यवसायानुपनीतस्येति / व्यवसायतद्गतधमव्यतिरिक्तस्य व्यवसाय विषयस्यैवानुव्यसायत्वाव्यवसायविषयकत्वस्य च व्यवसायाविषयत्वान्न तस्यानुव्यवसायविषयतेत्यर्थः / अस्तु तर्हि स्वप्रकाशबादिमते स्वविषयत्वस्य स्वेनैव ग्रहणमित्याशङ्कय नागृहीतविशेषणान्यायेन स्वेन स्वस्यापि ग्रहणं वक्तव्यम् , तथा च तस्यापि ग्रहणविकल्पासहत्वमित्याह-स्वसम्वेद्येति / विशेषणज्ञानतत्सन्निकर्षयोरिति मतभेदेनोक्तम् / अस्तु तर्हि स्वस्मात् पूर्व विशेषणज्ञानादिकमित्याशङ्कय स्वस्यैव विशेषगज्ञानत्वाद्विशिष्टज्ञानत्वाच न पूर्व तत्सम्भव इत्याह-विशेषणेति / विशेषणज्ञान विशिष्टज्ञानयोरेकत्वादेवपूर्व विशेषणज्ञानाभावात् क्रमपक्षोऽप्यनुपपन्न इत्याह--अत एवेति / शब्दबुद्धयादीनां जन्मातिरिक्तव्यापाराभावेन क्रमेण विषयसम्बन्धश्च न सम्भवतीत्याह-बुद्धरिति / भवन्मतेऽपि ज्ञानस्फुरणयोरत्यन्तभेद एवेत्याह-सकर्मकेति / विषयगतस्फुरणाभावे ऽपि स्फुरतीत्यनुभवान्न तस्य विषयत्वमिति चोदयति-नन्विति / इष्टापत्तिमाशङ्ख्याह-तत्र चेति / तर्हि ज्ञानविषयत्वमेव तत्र स्फुरतीति व्यवहियत इत्यत आह-ज्ञानेनैवेति / गूढाभिसन्धिरुत्तर.
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy