________________ प्रथमः परिच्छेवः 87 वद्देवदत्तो घट स्फुरतीति, घटः स्फुरतीतिवत् घटो जानातीति च प्रत्ययप्रयोगयोरापत्तेः। ननु जानातीति ज्ञानाश्रयत्वमनुभूयते घटः स्फुरतीति च ज्ञानविषयत्वम्, अतो न स्फुरणज्ञानयोर्भेदो, न वा प्रतीतिवैपरोत्यमिति चेन्न / घटमहं जानामीत्यनुभूयमानज्ञानात्पृथगेव स मे घटः स्फुरतीति स्फुरणस्यानुभूयमानत्वात् / ननु घटं जानामीत्यर्थविशेषणं ज्ञानमात्मन्युभूयते, घटः स्फुरति ज्ञानविषयो भवतीति ज्ञानोपसर्जनोऽर्थः प्रतीयत इति विशेषणविशेष्यभाव एव परं भिद्यते न त्वनुभवयोर्विषयभेद इति चेन्न / स्फुरतीति स्फुरणानुभवस्य तदुपसर्जनतया शब्दवव्याख्यानानहत्वात् // स्वोपसर्जनमः स्वस्य ज्ञानान्तरस्य वा विषय इति विकल्प्य दोषयोजनम् किश्च स्वोपसर्जनमर्थ स्वयं विषयीकरोति ज्ञानान्तरोप. सर्जनं वा ? नाद्यः, वेद्यज्ञानवादे स्वस्य स्वविषयत्वानुपपत्तेः / न ननु स्फुरणं नामोपलब्धिः, तस्या बुद्धयाद्यभेदस्याक्षपादैरेवोक्तत्वान्न तयोर्भेद इति चोदयति-ननुन वृत्तीति / प्रमातृप्रमेययोभिन्नत्वात्तत्तादात्म्येन प्रतीयमानयोरभेदायोगान्मूलप्रमाणाभावादक्षपादवचनमनुपादेयमित्यभिप्रेत्याह-न देवदत्त इति / अयोगमेवोपपादयति-न हीति / सुखादौ तददर्शनादित्यर्थः / ननु द्वित्वादिवदुभयसम्बन्धित्वमुपपद्यतेत्याशङ्कय ता भयत्रोभयसम्बन्धप्रतीतिः स्यादित्याह-अभेदे वेति / ननु घटः स्फुरतीति न स्फुरणतादात्म्यं प्रतीयते किं तु प्रमातृधर्मस्फुरणविषयत्वं घटस्य, तथा च नोक्तदोष इति चोदयति-ननु जानातीति / सकर्मकत्वाकर्मकत्वलक्षणविरुद्धधर्मवत्तयाऽनुभूयमानत्वान्न तयोरभेद इत्याह-न घटमहमिति / ननु घटः स्फुरतीति सकर्मकज्ञानस्यैवानुभूयमानत्वानोक्तवैधर्म्यमिति चोदयतिननु घटं जानामीति / घटश्चलतीतिवत् घट: स्फुरतीति तत्तादात्म्यप्रतीतेनेदं व्याख्यानमुचितं शब्दस्यैव लक्षणादिवृत्त्याऽर्थान्तरस्य सम्भवादिति दूषयतिन स्फुरतीति / / व्यवसायतज्ज्ञानविषयो भवतीति व्याख्यानेऽपि यज्ज्ञानं प्रति विषयो घटस्तेनैव घटे स्वविषयत्वं गृह्यते किं वा ज्ञानान्तरेणेति विकल्प्य क्रमेण दूषयति-किञ्चेति /