________________ सटीकाद्वैतदीपिकायाम् मेव विशेषदर्शनं तन्निवर्गकमित्यन्वयव्यतिरेकाभ्यां स्वीक्रियते / एवमस्मन्मतेऽपि स्वप्रकाशसाक्षिणा स्वपरप्रकाशेऽपि तद्गोचराविद्यानिवत्तौ चक्षुरादिजन्यज्ञानान्वयव्यतिरेकदर्शनात तरतिशोकमात्मवित् वेदान्तविज्ञानसुनिश्चितार्था इत्यादिशास्त्राचान्ताकरणतिरविद्यानिवृत्तौ हेतुरिति / प्रयोगश्च इन्द्रियसंयोगे सत्यप्यजायमानाऽविद्यानिवृतिः कादाचित्कहेतुजन्या, कार्यत्वात् , घटवत, अन्यथा व्यासङ्गादशायामप्यविद्यानिवृत्तिप्रसङ्गात् / तच्च कादाचित्कं कारणं परिशेषादन्तः करणवृत्तिरिति // ज्ञानं स्फुरणादन्यत् किश्च स्वरूपज्ञानातिरिक्ता वृत्तिः स्वीकर्तव्या। देवदत्तो जानाति घटः स्फुरतीति तयोर्भेदेनानुभवात् / ननु न वृत्तिस्फुरणयोर्भेदः, बुद्धिरुपलब्धर्ज्ञानं प्रत्यय इत्यनर्थान्तरमित्यक्षपादोक्तरिति चेत् न, देवदत्तो जानाति घटः स्फुरतीति तयोभिन्नाश्रयत्वेनानुभूयमानयोरेकत्वायोगात् / नहि प्रमातृधर्मस्य ज्ञानस्य प्रमेयतादात्म्यं सङ्गच्छते / अभेदे वा देवदत्तो घट जानातीति अङ्गीकृत्यापि विषयत्वं न तन्मात्रेगाज्ञातत्वाद्यभावः किं तु वृत्तिविशेषे सत्येवेति सदृष्टान्तमुपसंहारव्याजेनाह--तस्माद्यथेति / वेदान्तजन्यज्ञानस्यानर्थनिवर्तकत्वश्रवणाच्चाविद्यानिवृत्तौ तदुपयोग इत्याह--तरति शोकमिति / तर्कितेऽर्थे ऽनुमानमाह--प्रयोगश्चेति / अविद्यानिवृत्तिरित्युक्त चाविद्यानिवर्तकेन्द्रियसंयोगमादा. यार्थान्तरता स्यात्तनिवृत्त्यर्थमिन्द्रयसंयोगेत्यादिविशेषणम्-कादाचित्केति / आदिमत्प्रयोज्येत्यर्थः। तथा च नाविद्ययाऽर्थान्तरता, न वा वृत्त्यवच्छिन्नचैतन्य स्यैवाविद्यानिवर्तकत्वपक्षे बाधः / तन्मतेऽपि वृत्तिप्रयोज्यत्वात् / विपक्षे दण्डं पातयति--अन्यथा व्यासङ्गेति / मनःसंयोगस्य हेतुत्व निरासात्तस्मिन् सत्यप्यनेकशब्दसमवाये शब्दान्तराविद्यानिवृत्त्यदर्शनाच्चेति भावः // पूर्व विषयतया अनुभूयमानं ज्ञानमविषयचैतन्यादेवेत्युक्तमिदानी स्फुरणस्य विषयसम्बन्धित्वेनानुभवाज्ज्ञानस्य च प्रमातृसम्बन्धित्वेनानुभवात्तदन्यज्ञानमित्याह--किञ्चेति /