________________ प्रथमः परिच्छेदः तदुपपत्तिः / अथार्थप्रकाशत्वेन तदा स्वरूपचैतन्यस्थापि तथात्वाततोऽप्यविद्यानिवृत्तिः स्यादिति / तन्मन्दं; अन्वयव्यतिरेकाभ्यामपरोक्षप्रमाणज्ञानत्वेन तन्निवय॑स्यैव मिथ्यात्वात् / केवलसाक्षिणो ऽविद्यासाधकत्वाच नाविधानिवर्तकत्वम् / वृत्तिसहकृताज्ञानादगिद्यानिवृत्तिः न चैवं वृशिसहकृतादपि तस्मात्कथं तन्निवृत्तिरिति वाच्यम् / साधकस्यापीश्वरज्ञानस्येव सहकारिविशेषानिवर्तकत्वोपपत्तेः। तस्माद्यथा परमते संशयस्य स्थाणुत्वादिवैशिष्टयविषयत्वेऽपि न संशयविरोधित्वम् / संशयधाराविलोपप्रसङ्गात् / किं तु निश्चयस्यैव / तथैवान्वयव्यतिरेकदर्शनात् / तत्रापि प्रमेय. मिति ज्ञाने सर्वावभासेऽपि घटत्वादिप्रकारकसंशयदर्शनेन संशयस्य स्वतमानप्रकारकनिश्चयविरोधित्वमास्थितम् / तत्राप्यानुमानिकविशेषदर्शने सत्यपि प्रत्यक्षभ्रमदर्शनादपरोक्षरूप द्वितीये वृत्त्यभावेऽपि चैतन्यप्रकाशादेवाज्ञानं निवर्तेत / कारणतावच्छेदकावच्छिन्ने सति वृत्तिज्ञानानपेक्षस्य कार्यस्यावश्यकत्वादिति चोद्यमनुवदति--यच्चोक्तमिति / नोभयथापि निवतकत्वं किन्तु अपरोक्षप्रमाणज्ञानत्वेन / न चैवमपि निवर्त्यस्य मिथ्यात्वं न स्यादिति वाच्यम् / शुक्तिरजतादावेतादृशज्ञाननिवर्त्यस्य मिथ्यात्वनियमादिति दूषयति--तन्मन्दमिति / ज्ञानस्य स्वविषयाव्युदासकत्वादपि न केवलसाक्षिणोऽविद्यानिवर्त्तकत्वमित्याह-केवलेति। ___ तर्हि कदापि तस्य न निवर्तकत्वमित्याशङ्कय सहकारिसमवधाने निवर्तकत्वं तस्यैवेति सदृष्टान्तमाह--न चैवमिति / ईश्वरज्ञानस्येत्युपलक्षणम् / अस्मदादिघटज्ञानस्यापि मुद्गरादिसहकारिणि सति स्वविषयनिवर्तकत्वदर्शनादित्यर्थः। यत्त्वत्राचीनेनोक्तं ब्रह्मणः स्वप्रकाशत्वेनाज्ञातत्वमेव नास्ति कुतस्तन्निवृत्तौ वृत्तरुपयोग इति / तन्न / किं स्वप्रकाशत्वमज्ञातत्वाभावे प्रयोजकमुत प्रकाशमानत्वम् / नाद्यः आत्मनोऽन्यत्र तव्याप्तिस्थलाभावात् / द्वितीये यदि प्रकाशमानत्वं प्रकाशरूपत्वं तदा पूर्वोक्त एव दोषः / यदि प्रकाशप्रयुक्ताज्ञानाद्यगोचरत्वं तदा प्रयोज्यप्रयोजकयोरभेदः। अथ प्रकाशविषयत्वं प्रकाशमानत्वम् / तदपि न। ब्रह्मणः स्वपरप्रकाशाविषयत्वात् /