________________ सटीकाद्वैतदीपिकायाम् चैतन्याविरोधितया ज्ञानस्य चोद्यान्तरपरिहारः एतेन चैतन्याज्ञानयोरविरोधित्वे कथन्तयोः प्रकाशत्वाप्रकाशत्वे ज्ञानत्वाज्ञानत्वे च स्यातामिति निरस्तम् / वृत्तिसहकृतचैतन्यस्याज्ञानविरोधिस्वाभ्युपगमात् / अत एवेदमपि परास्तम् , अनुमेयादिगोचरपरोक्षवृत्तौ सत्यामपि नानुमेयादौ भावरूपाज्ञाननिवृत्तिः, इच्छादौ च वृत्तिमन्तरेणापि स्फुरणमात्रेणाज्ञाननिवृत्तिरित्यन्वयव्यतिरेकन्यभिचारावृत्ति ज्ञाननिवृत्तौ हेतुरिति / अपरोक्षवृत्तेरेवाज्ञाननिवृत्तिहेतुतया परोक्षवृत्तेरन्वयव्यभिचारस्यादूषणत्वात् / नद्यानुमानिकादि शेषदर्शनादपरोक्षभ्रमो न निवर्तत इति नापरोक्षमपि विशेषदर्शनं तत्र हेतुः / इच्छादेश्वानावृतसाक्ष्यंशाध्यासादेवाज्ञानविरहात्स्फुरण.मात्रादज्ञा - ननिवृत्तौ नोदाहरणम् / यचोक्तं वृत्तिर्यद्यर्थप्रकाशत्वरूपं विहाय जातिविशेषेणाविद्यातत्कार्ये निवर्तयेत्तदा रागनिवर्त्यद्वेषवत्तयोः सत्यत्वेऽपि विरोधित्वमविद्यायाः प्रतीयत इत्याह-वृत्तिशबलमिति / तत्रहेतुमाह--नअर्थस्येति / न जानामीत्यत्र नार्थस्याज्ञानधर्मिकविरोधित्वस्य सम्बन्धिज्ञानपदस्य योऽर्थो वाच्यो वृत्तिकवलीकृतचैतन्यं तन्निरूप्यत्वनियमादित्यर्थः / / वृत्तिविरोधित्वे ऽपि चैतन्यविरोधित्वानपायादन्यदपि चोद्यं निरस्तमित्याह-एतेनेति / अत एवेदमिति / स्पष्टोऽथः / अपरोक्षप्रमाणवृत्तेरेव निवर्तकत्वाभिधानात्तत्र नान्वयव्यभिचार इत्याह-अपरोक्षेति / परोक्षवृत्तरविद्यानिवृत्तौ व्यभिचारेऽपि नापरोक्षवृत्तव्यभिचार इत्यत्रोदाहरणमाह-न हीति / पीतः शङ्ख इति भ्रमस्यानुमानिकश्वैत्यज्ञानेनानिबत्तावपि तदपरोक्षज्ञानस्य तन्निवत्तौ हेतुत्वदर्शनादित्यर्थः / व्यतिरेकव्यभिचारश्च नास्तीत्याह-इच्छादेरिति / वृत्यभावेऽपि यद्यज्ञाननिवृत्ति: स्यात्तर्हि व्यतिरेकव्यभिचारः स्यान्नैतदस्ति इच्छाद्यवच्छिन्नचैतन्यावरकाविद्याभावेन तन्निवत्तिरपि नेत्यर्थः। वृत्तः किं जातिविशेषप्रयुक्तमविद्यानिवर्तकत्वमुतार्थप्रकाशत्वप्रयुक्तम् ?आये तग्निवय॑स्य रागनिवर्त्यद्वेषवन्मिथ्यात्वं न सिद्धयेत् /