________________ तथा वैरं परस्परविरोधो न स्यादिति पञ्चमः / तथा ईतिर्धान्याधुपद्रवकारी प्रचुरो मूषिकादिप्राणिगणो न स्यादिति षष्ठः / / तथा मारिरीत्पातिकं सर्वगतं मरणं न स्यादिति सप्तमः / / तथा अतिवृष्टिनिरन्तरं वर्षणं न स्यादित्यष्टमः / / तथा अवृष्टिः सर्वथा वृष्ट्यभावो न स्यादिति नवमः / दुर्भिक्षं भिक्षाणामभावो न स्यादिति दशमः / / तथा स्वराष्ट्रात् परराष्ट्राच्च भये न स्यादित्येकादशः / / एवमेकादश अतिशयाः कर्मणां ज्ञानावरणीयादीनां चतुर्णा घातात् क्षयात् जायते इति / / 60 / / देवकृतानतिशयानाहखे धर्मचक्रं चमरा: सपाद-पीठं मृगेन्द्रासनमुज्ज्वलं च / छत्रत्रयं रत्नमयध्वजोंऽहि-न्यासे च चामीकरपङ्कजानि / / 61 / / वप्रत्रयं चारु चतुर्मुखाङ्गता चैत्यद्रुमोऽधोवदनाश्च कण्टकाः / द्रुमानतिर्दुन्दभिनाद उच्चकै-तोऽनुकूल: शकुना: प्रदक्षिणाः / / 62 / / गन्धाम्बुवर्षं बहुवर्णपुष्प-वृष्टिः कचश्मश्रुनखाप्रवृद्धिः / चतुर्विधाऽमय॑निकायकोटि-र्जघन्यभावादपि पार्श्वदेशे / / 63 / / ऋतूनामिमिन्द्रियार्थानामनुकूलत्वमित्यमी / एकोनविंशतिर्देव्याश्चतुस्त्रिंशच्च मीलिताः / / 64 / / खे आकाशे धर्मप्रकाशकं चक्रं धर्मचक्रं भवतीति देवकृतः प्रथमोऽतिशयः / तथा खे चमरा इति द्वितीयः। तथा खे पादपीठेन सह मृगेन्द्रासनं सिंहासनमुज्ज्वलं निर्मलमाकाशस्फटिकमयत्वादिति तृतीयः / / तथा खे छत्रत्रयमिति चतुर्थः / / तथा खे रत्नमयो ध्वज इति पञ्चमः / / तथा पादन्यासनिमित्तं सुवर्णकमलानि भवन्तीति षष्ठः / / तथा समवसरणे रत्नसुवर्णरूप्यमयं प्राकारत्रयं मनोजं भवतीति सप्तमः / तथा चत्वारि मुखानि अङ्गानि गात्राणि च यस्य स तथा तद्भावश्चतुर्मुखाङ्गता भवतीति अष्टमः / / तथा चैत्याभिधानो द्रुमोऽशोकवृक्षः स्यादिति नवमः / / तथा अधोमुखाः कण्टका भवन्तीति दशमः / / तथा द्रुमाणामानतिर्नम्रता स्यादिति एकादशः / / तथा उच्चैर्भुवनव्यापी दुन्दुभिध्वानः स्यादिति द्वादशः / / અરિહંતના અતિશયો 177