________________ અભિધાન ચિંતામણિ (स्वीपक्ष टी सहित) तेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च / श्वासोऽब्जगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविस्रम् / / 57 / / आहारनीहारविधिस्त्वदृश्य-श्चत्वार एतेऽतिशया: सहोत्थाः / तेषामिति तीर्थकराणां, देहः कायः, अद्भुतं लोकोत्तरं रूपं गन्धश्च यस्य स तथा, निरामयो नीरोगः, स्वेदेन अङ्गजलेन, मलेन च त्वगावारककिट्टेनोज्झितः, स्वेदमलोज्झितः, एषः प्रथमः सहोत्थोऽतिशयः / श्वास उच्छ्वासनिःश्वासं, अब्नं पद्म, तस्येव गन्धोऽस्याब्जगन्धः इति द्वितीयः / रुधिरं चामिषं च 'अप्राणिपश्वादेः' / / 3 / 1 / 136 / / इति समाहारे रुधिरामिषं मांसशोणितं, गोक्षीरधारावद्धवलं पांडुरं, अविस्त्रं अनामगन्धि इति तृतीयः / / 57 / / ___ आहारोऽभ्यवहरणं नीहारो मूत्रपुरीषोत्सर्गस्तयोविधिः क्रिया न दृश्यते इति अदृश्य मांसचक्षुषा न पुनरवध्यादि लोचनेन पुंसा / यदाहुः - 'पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा' एष चतुर्थः / / एते चत्वारोऽपि जगतोऽप्यतिशेरते तीर्थंकरा एभिरित्यतिशया:, सहोत्था: सहजन्मानः / / अथ कर्मक्षयजानतिशयानाह क्षेत्रे स्थितियोजनमात्रकेऽपि नदेवतिर्यग् जनकोटिकोटेः / वाणीनृतिर्यक्सुरलोकभाषा-संवादिनी योजनगामिनी च / भामण्डलं चारु च मौलिपृष्ठे विडम्बिताहर्पतिमण्डलथि / / 59 / / साग्रे च गव्यूतिशतद्वये रुजा, वैरेतयो मार्यतिवृष्ट्यवृष्टयः / दुर्भिक्षमन्यस्वचक्रतो भयं, स्यानैत एकादश कर्मघातजाः / / 60 / / योजनप्रमाणेऽपि क्षेत्रे समवसरणभुवि नृणां देवानां तिरश्चा च जनानां कोटीकोटिसंख्यानां स्थितिरवस्थानमिति प्रथमः कर्मक्षयजोऽतिशयः / ___ वाणी भाषा अर्द्धमागधी नरतिर्यक् सुरलोकभाषया संवदति तद् भाषाभावेन परिणमतीत्येवंशीला, योजनमेकं गच्छति व्याप्नोतीत्येवंशीला योजनगामिनी चेति द्वितीयः / भानां प्रभाणां मण्डलं भामण्डलम्, मौलिपृष्ठे शिरःपश्चिमभागे तच्च विडम्बितदिनकरबिम्बलक्ष्मीकमित्यत एक चारु मनोहरमिति तृतीयः / ___ साग्रे पञ्चविंशतियोजनाधिके, गव्यूतिः क्रोशद्वयम्, गव्यूतीनां शतद्वये योजनशत इत्यर्थः, रुजा रोगो ज्वरादिर्न स्यादिति चतुर्थः / / 177 અરિહંતના અતિશયો