________________ नुज्ञाप्य स्थितवानसौ शून्यगृहादिषु। एवं नक्तन्दिनमपि यतमानस्त्रयोदशवर्षाणि यावदप्रमत्तः समाहितमना ध्यायति स्म भगवान्। निद्राऽपि भगवतो द्वादशसंवत्सरेषु मध्येऽस्थिकग्रामेऽन्तर्मुहूर्तं यावत् सकृदेवाऽसीत्। यत्रापीषत् शय्या तत्राप्यप्रतिज्ञो भगवान्, शय्याभिप्रायाभावात्। सम्बुद्ध्यमानः पुनरपि संयमस्थानेनोत्थितवान्। शीतकाले बहिर्निष्क्रम्य तत्र मुहूर्त्तमानं ध्यानं कृत्वा निद्राप्रमादमपनीतवान्। आश्रयेष्वपि श्वापदपक्षिमनुष्यकृता भयानका बभूवुरुपसर्गाः।