________________ तेषु भगवान् संयमारतिं भोगाभिष्वङ्गरतिं चाभिभूय प्रायो मौनी बभूव। परमतितिक्षा / / 1-9-3 // लाढेषु तु देशेष्वनेकोपद्रवोपद्रुतवसतिप्रभृति सेवितवान् भगवान् / ऋक्षकल्पमन्तप्रान्तं तत्र भुक्तवान्। कुर्कुरास्तस्योपरि निपेतुः। अल्पजनस्तत्र तान् निवारयति स्म, बहवस्तु चण्डप्रहारादिभिर्भगवन्तं हत्वा तत्प्रेरणाय सीत्कुर्वन्ति स्म, यथा दशेयुस्तं कुर्कुराः। एवंविधे जनपदे षण्मासावधिं कालं स्थितवान् भगवान्। यथा