________________ सङ्ग्रामशीर्षे परानीकं जित्वा तत्पारगो भवति, एवं श्रीवीरोऽपि भगवान् लाढेषु परीषहानीकं विजित्य पारगोऽभूत्। न च वसत्यर्थं ग्रामोऽपि क्वचिदवाप्तस्तत्र भगवता। दण्ड-मुष्टि-लेष्टघटकप्पर-कुन्तप्रभृतिभिस्तेऽनार्या भगवन्तं हत्वा चक्रन्दुः। मांसान्यपि भगवतश्छिन्नपूर्वाणि। तत्कायामाक्रम्य नानाप्रकाराः परीषहाश्च भगवन्तमलुञ्चिषुः पांसुना वाऽवकीर्णवन्तः। ऊर्ध्वमुत्क्षिप्य भगवन्तं भूमौ क्षिप्तवन्तः। आसनाद्वा वीरासनादिकान् निपातितवन्तः। भगवांस्तु पुनरपि व्युत्सृष्टकायः