________________ षटकायान् सर्वशो ज्ञात्वा परिहृत्य च चकार विहारम्। सोपधिको लुप्यते कर्मणेति तं प्रत्याख्यातवान्।। ज्ञात्वेर्यापथिकसाम्परायिकोभयकर्मबन्धमिन्द्रियश्रोतसं हिंसादिश्रोतसं च परिज्ञातवान्। सर्वपापोपादानभूतास्त्रियः परिज्ञातास्तेन। नासावाधाकर्मादि सेवते स्म, कर्मबन्धनसर्वप्रकारदर्शित्वात्। यत्किञ्चिदन्यदपि पापं परिहृत्य प्रासुकमुपभुक्तवान्। न सिषेवे परवस्त्रपात्राणि। अवगणय्यापमानं जगामाऽऽहाराय। नालम्बते स्म स