________________ गृहिणो तं हननादिना चक्रुरुपसर्गान्, न तु चचाल स ध्यानात्। गृहिभिः पृष्टोऽपृष्टो वा न वक्ति स्म। नातिवर्त्तते स्म मोक्षपथम्। दुष्करमेतदन्येषाम्। अनार्यदेशेषु तु हतोऽयं दण्डैः। लूषितश्च केशलुञ्चनैः। दुस्तितिक्षाण्यतिगत्य पराक्रममाणोऽसौ सम्यक् तितिक्षते स्म। न कौतुकं चकार नृत्यादौ। जगामासौ दुःष्प्रधृष्याणि दुःखान्यस्मरन्। गृहिवासेऽपि भगवान् साधिकवर्षद्वयं यावच्छीतोदकाद्यारम्भं परित्यज्य स्थितः, किम्पुनः प्रव्रज्यायाम् ? स