________________ मात्। धर्मशुक्लध्यानसमाहितोऽसाविन्द्रियाणि रागद्वेषाकरणतया प्रेरयेत्। पापत आत्मानमुत्क्रामयेत्। इतीङ्गितमरणम्। साम्प्रतं पादपोपगमनमाह-एतद्विधिर्यत्नेनाध्यवसितस्स्यात्। तत्र सर्वगात्रनिरोधेऽपि न द्रव्यभावोभयतः स्थानान्तरं यायात्। उत्तमोऽयं धर्मः। कष्टतरश्च पूर्वद्वयात्, सङ्कोचादिनिषेधात्। अचिरं स्थण्डिलं पूर्वविधिना प्रत्युपेक्ष्य मर्यादा पालयन् तिष्ठेत्। अचित्तं फलकादि समासाद्य तत्रात्मानं स्थापयेत्।