________________ O NL2 यावदानुगमिकमिति प्राग्वत्। पादपोपगमनम् // 1-8-7 // यो भिक्षुस्तृणादिस्पर्शमधिसोढुं शक्तः, न तु गुह्यप्रच्छादनत्यागे, तस्य कटिबन्धनवस्त्रग्रहणं कल्पते। मरणत्रयविधिः // 1-8-8 // सर्वमनन्यसदृशं ज्ञात्वा समाधिमनुपालयेत्। अन्तिमाराधनां प्रतिपन्नो भिक्षुर्जीवितं नाभिकाक्षेत्, नापि मरणं प्रार्थयेत्, अपि तु द्वयोरपि सङ्गं न कुर्यात्। मध्यस्थो निर्जराप्रेक्षी