________________ रयेदास्वादयन्। दक्षिणतश्च वामम्। एवं हि लाघवं तपश्च। शरीरनिर्वाहासामर्थ्य सति संवाऽऽहारं प्रतनुकान् कृत्वा कषायान् नियम्य कायव्यापारान् फलकवदवस्थायी शरीरसन्तापरहितस्सन् इङ्गितमरणं कुर्यात्। तदर्थं ग्रामादिकमनुप्रविश्य प्रासुकभूमौ संस्तीर्य तृणानि प्रत्युत्प्रेक्ष्योच्चारादिभूमिं कुर्यादिङ्गितमरणप्रत्याख्यानम्। ततोऽपि त्यक्त्वा भिदुरं कायं संविधूय परीषहोपसर्गान् प्रतिपद्येतेङ्गितं मरणम्। एतदपि हितं