________________ न सेवन्ते समाधिम्। परुषं वदन्ति शास्तारमेव। स्वयमशीला अपि ते निन्दन्ति सुशीलान् साधून्। सा च मन्दानां तेषां द्वितीया बालता। केचित्तु कर्मोदयानिवर्तमाना अपि संयमाद् वदन्ति यथावस्थितमाचारगोचरम्। बालास्तु सदसद्विवेकभ्रष्टाः। सम्यग्दर्शनप्रध्वंसिनो भवन्ति। अपरे तु विनीता अप्यपनयन्ति संयमम्, कर्मोदयात्। परीषहस्पृष्टा वा निवर्तन्तेऽसंयमहेतोः। तेषां निष्क्रान्तमपि दुर्निष्क्रान्तम्। अज्ञानामपि निन्दनी