________________ कृशा भवन्ति बाहवः प्रज्ञानसम्पन्नानाम्। प्रतनुके च मांसशोणिते। ते च क्षान्त्यादिना कषायसन्ततिमपनीय मुच्यन्ते। जलबाधारहितद्वीप इव भावसाधुः। नास्य कदाचिदप्यरतिबाधा। पक्षिशिक्षितास्तत्पोता यथोड्डयनविधौ प्रत्यला भवन्ति, तथाऽऽचार्यशिक्षिताः शिष्या अपि तरितुं भवाब्धिम्। निर्वेदः // 1-6-4 // केचित्त्वाचार्यसकाशादधीत्य मानेन परुषा भवन्ति। अतिक्रामन्ति तदाज्ञाम्। गृध्यन्ति कामेषु। आसजन्ति गौरवेषु।