________________ चाक्रोशादावपि तितिक्षमाणाः परिव्रजेयुः। परीषहादिसहिष्णवो हि भावनिर्ग्रन्थाः। नेच्छन्ति ते गृहप्रत्यागमनम्। आज्ञानुरूपं पालयन्ति मदुक्तधर्मम्। ततश्च क्षपयन्ति कर्म। साधुसमाचारः।।१-६-३॥ सर्वज्ञोक्ताचारमनुपालयन् मुनिस्त्यजत्यधिकवस्त्रम्। न चिन्तयति तदभावोपनीतपरीषहप्रतिकारम्, नापि साम्प्रतवस्त्रजीर्णत्वादिकम्, तत्सन्धनादिकम्, प्रत्यग्रवस्त्रलाभोपायं च। ततश्च सहतेऽसौ परीषहान्।