________________ 6 वृद्धि-धर्मश्रुत्यादिक्रमेण महामुनयोऽभिनिष्क्रमन्ते। तत्प्रव्रज्यावसरे च रुदन्ति जनकाः। नैते मच्छरणमिति जानाना नैते रमन्ते तद्वचसि। ते च संसारपारयायिनः। कर्मविनयः // 1-6-2 // अथैके धर्मपालनाशक्ताः कुशीलाः। न ते सहन्ते परीषहान्। कुर्वते कामेषु ममकारम्। परित्यज्योपकरणानि व्रजन्ति गृहवासम्। ततश्चानन्तमपि कालं यावन्नासादयन्ति पञ्चेन्द्रियत्वादिसामग्रीम्। अन्ये तु दृढधर्माणो निर्ममत्वा यतमाना द्रव्यतो भावतश्च मुण्डाः। ते