________________ पाकं च सम्प्रेक्ष्य यतितव्यं तदुच्छित्तये। सन्ति जीवा नरकस्था जलादिगाश्च। प्राणिनोऽपरान् प्राणिन आहाराद्यर्थं मत्सरादिना वोपतापयन्ति। पश्येदं लोके महद्भयम्। बहुदुःखास्तु जन्तवः। मानवाः कामसक्ताः। ततश्च कर्मोपचित्यानेकशो वधं गच्छन्ति। रोगिणोऽपि भवन्ति। ततोऽपि प्राण्युपमईचिकित्सया पापिनोऽनुभवन्ति तदुर्विपाकम्। अतो नातिपातयेत् कञ्चनापि प्राणिनम्। कर्मधूननं ज्ञातिपरित्यागो वा धूतम्, तद्वादं प्रवेदयिष्यामि। यथोत्पत्ति-जन्म