________________ ... 2 4 यास्ते। ते च पुनः पुनर्जन्ममरणभाजो भवन्ति। अज्ञा अपि त आत्मानं विद्वांसं मन्यमानाः परुष वदन्ति मध्यस्थान्। एतान् सर्वानपि ज्ञात्वा मेधावी वीर आगमानुसारेण सदा पराक्रमेत। ___ समता // 1-6-5 // गृहादिषूपसर्गकारिणो जना भवन्ति, स्पर्शा वा दुःखदाः स्पृशन्ति। तान् धीरोऽधिसहेत सम्यक्। तितिक्षेत तान् नरकादिदुःखभावनया। रागादिरहितः सम्यग्दृष्टिः सर्वत्र दयां कुर्वन् द्रव्यतो ज्ञात्वा क्षेत्रतः प्राच्यादिदिग्विभागान