________________ बहिः समुद्रवत्। एवमाचार्योऽपि कुमार्ग प्रतीत्य, तत्प्रवेशनिर्गमविरहात्। विचिकित्सा समाधिविघ्नम्। तदेव सत्यं निःशकं यजिनोक्तम्। परिणामवैचित्र्यावृध्द्यादिभावं प्रतिपद्यते प्रव्रजितस्य श्रद्धा। यं हननादिगोचरीकर्तुमिच्छसि, स त्वमेव। तदेतत्परिज्ञानजीवी साधुरेव। य आत्मा स विज्ञाता, विज्ञाता चाऽऽत्मा। येन विजानाति, स आत्मा। ज्ञानात्मनोरतिरेकविरहात्। सम्यक् पर्याय एवं यथावस्थिताऽऽत्मवादिनः।