________________ परिगलत्श्रोताः, पर्यागलत्श्रोताश्च, शीताशीतोदाप्रवाहहृदवत्। एवमाचार्यः श्रुतमङ्गीकृत्य, श्रुतस्य दानग्रहणसम्भवात्। (2) परिगलत्श्रोताः, नो पर्यागलत्श्रोताः, पद्महृदवत्। एवं सूरिरपि साम्परायिककर्मापेक्षया नास्य ग्रहणम्, कषायोदयविरहात्। क्षपणोपपत्तिश्च तपसा। (3) नो परिगलत्श्रोता: पर्यागलत्श्रोताश्च, लवणोदधिवत्। तथा सूरिरप्यालोचनामाश्रित्य, अप्रतिश्रावित्वात्। (4) नो परिगलत्श्रोताः नो पर्यागलत्श्रोताश्च, मनुष्यलोकाद्