________________ स्यात्। कार्यादृते तदवग्रहाद् बाह्यः स्यात्। गमनादिषु यतनया वर्तेत। सम्भाव्यतेऽप्रमत्तस्यापि प्राणिपरितापादि, किन्तु तदैहिकभवमात्रानुबन्धि, तेनैव भवेन क्षिप्यमाणत्वात्। आकुट्टिकृतं तु प्रायश्चित्तविशोध्यम्। रागस्य परमनिमित्तं स्त्रीजनः। तेन बाध्यमानेन निःसार आहारो ग्रहीतव्यः, अवमोदर्यं च कार्यम्। तेनाप्यनुपशमे तिष्ठेदुर्ध्वस्थानम्। कुर्याच्चातापनाम्। तेनाप्यनुपशमे ग्रामानुग्राममपि विहरेत्। तेनाप्यनुपशम आहारमपि