________________ कृत्वाऽपि तदपलपनं मन्दस्य द्वितीया बालता। नरकहेतुतया ज्ञात्वा विषयानुषङ्गं लब्धानपि कामान् चित्ताद् बहिःकुर्यात्। अज्ञा अशरणमपि शरणतया मन्यन्ते। केचिच्चैकाकितया विचरन्ति कुर्वते च प्रच्छन्नतया पापम्। सततं मूढो नाभिजानाति धर्मम्। ततश्चाविरतोऽविद्यश्च परिवर्तते संसारम्। भावमुनिः // 1-5-2 // सम्यक् परीषहोपसर्गान् सहमानो हि भावसाधुः। पूर्वं पश्चाद्वापि सोढव्या एव त इति चिन्त्यम्। भावनीयं