________________ च देहनश्वरत्वम्। तद्भावयितुश्च ज्ञानादिरतस्य न नरकादिगमनम्। महाभयं परिग्रहः नरकादिहेतुत्वात्, अतस्त्यजेत्तम्। अपनीयते हि परिग्रहिणः सुज्ञानादि। विपराक्रमेत परमचक्षुः। निष्परिग्रहेष्वेव ब्रह्मचर्यम्। सपरिग्रहा विषयसक्ताश्च बहिर्भूता धर्मस्य। साधुता // 1-5-3 // न हि द्रव्यत्यागमन्तरेणापरिग्रहभावोदयः। समभावतो धर्मः। नान्यत्र स जिनशासनात्। अतो नात्र निगृहयेद् वीर्यम्। उत्कृष्टसाधुः सिंहोत्थितः