________________ लोकसारः कूटमुनिः // 1-5-1 // अर्थादनाद्वा केचन जीवान् घातयन्ति, दुरतिक्रमत्वात्कामानाम्। ततस्ते पुनः पुनर्मरणान्न मुच्यन्ते। दूरोऽसौ मोक्षात्। विषयसुखस्यान्तरपि स न, दूरेऽपि न, तदनवाप्तेस्तदाशाऽपरित्यागाच्च। कुशाग्रस्थितस्य वातेरितस्य जलबिन्दोः पतनमिव बालस्य जीवितम्। संशयपरिज्ञः संसारपरिज्ञाता स्यात्, तदज्ञश्च तदनभिज्ञः। निपुणो न सेवते मैथुनम्। * 48