________________ मांसशोणितं विकृष्टतपोऽनुष्ठानादिना पृथक्कुरु। एवं कुर्वाणो ब्रह्मचर्य उषित्वाऽऽदेयवचनो भवति। बालस्तु मिथ्यात्वादिषु विषयेषु च गृद्धोऽव्यवच्छिन्नबन्धनोऽत्यक्तसंयोगो मोहवर्तितया मोक्षोपायमजानानो वञ्यते जिनाज्ञालाभात्। प्राक्पश्चात्तनभवेषु तद्वञ्चितस्य न वर्तमानभवेऽपि तल्लाभसम्भवः। बन्धवधादिगोचरो भवति सावद्याऽऽरम्भप्रवृत्तः, अतस्त्यजेद्धिंसाम्।