________________ नानि दहस्व। त्यज च क्रोधम्, परिगलितत्वादायुषः, दुःखहेतुत्वाच्च क्रोधस्य। संयमः // 1-4-4 // पूर्वसंयोगं त्यक्त्वा प्रथमप्रव्रज्यावसरेऽविकृष्टेन तपसा शरीरमिषत् पीडयेत्। ततोऽधीतागमस्सन् विकृष्टतपसा प्रपीडयेत्। पुनरप्यध्यापितान्तेवासिवगर्गो मासक्षपणादिभिर्नि:पीडयेत्। गच्छेच्चोपशमम्। अविमनस्को हि वीरः, संयमे वैमनस्यविरहात्। दुरनुचरोऽयं मार्गो वीराणां मोक्षगामिनाम्। दर्पकारि