________________ सदातनविवेकसम्पन्नो धीरोऽहोरात्रं यतेत मोक्षाध्वनि। पश्येच्च धर्मबाह्यान् प्रमत्तान्। सदाऽप्यप्रमत्ततया पराक्रमेत। धर्मप्रवादः // 1-4-2 // य आश्रवा ते परिश्रवाः, ये परिश्रवास्त आश्रवाः येऽनाश्रवास्तेऽपरिश्रवाः, येऽपरिश्रवास्तेऽनाश्रवाः। बन्धनिर्जराहेतुत्वस्य परिणामाधीनत्वात्। एवमवगम्योद्यच्छेत्तपसंयमयोः। दुष्प्राप्यं प्राप्य सम्यक्त्वं न कार्यः प्रमादः, मृत्युमुखस्यानागमाभावात्।