________________ सम्यक्त्वम् सम्यग्वादः // 1-4-1 // सर्वजीवेषु हिंसा-ऽभियोगादिकं त्याज्यमित्यनन्तार्हदाज्ञा। उपस्थितानुपस्थितादिषु कर्त्तव्या धर्मकथा, प्राप्य सद्दर्शनं न गोपयेत्, नापि त्यजेत्। मनोज्ञेतरेषु रूपादिषु निर्वेदं गच्छेत्, शुभाशुभत्वयोः परिणत्यधीनत्वेन रागाद्यनौचित्यात्। त्यजेच्च तद्गोचरां लोकैषणाम्, तद्रहितस्य हिंसात्यागसम्भवात्।