________________ अरत्यानन्दयोरग्रहस्सन् चरेत्। सर्वं हासं परित्यज्याऽऽलीनगुप्तः परिव्रजेत्। आत्मन् ! त्वमेव त्वन्मित्रम्, किमिति बहिर्मित्रमिच्छसि? विषयसङ्गापनेता हि मोक्षमार्गव्यवस्थितः। तत्स्थितश्च तदपनेता। नात्मनिग्रहमन्तरेण दुःखमोक्षः। संयम एवाऽऽसेव्यः, तदुपस्थितस्य संसारतरणसम्भवात्। ज्ञानादिसहितो धर्ममादाय श्रेयः समनुपश्यति। मोक्षोपायः // 1-3-4 // एकज्ञः सर्वज्ञः, सर्वज्ञश्चैकवित्। प्रमत्तस्य